सामग्री पर जाएँ

कूर्म्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कूर्म्मः, पुं, (कुत्सितः ईषद् वा ऊर्म्मिः वेगो यस्य । के जले ऊर्म्मिर्यस्येति वा पृषोदरात् साधुः ।) जलजन्तुविशेषः । काछिम् इति भाषा । (यथा, भगवद्गीतायाम् । २ । ५८ । “यदा संहरते चायं कूर्म्मोऽङ्गानीव सर्व्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता” ॥) तत्पर्य्यायः । कच्छपः २ पञ्चनखः ३ गुह्यः ४ पञ्च- कूर्म्मश्च कुलिकश्चैव काद्रवेयाः प्रकीर्त्तिताः” ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कूर्म्म¦ पुंस्त्री॰ कुत्सितः कौ वा ऊर्म्मिर्वेगो यस्य पृषो॰।

१ कच्छपे, अमरः स्त्रियां टाप्। तल्लक्षणं वृह॰ सं॰

६४ अ॰ यथा
“स्फटिकरजतवर्णो नीलराजीवचित्रः कलशसदृशमूर्ति-श्चारुवं शश्च कूर्मः। अरुणसमवपुर्या सर्षपाकारचित्रःसकलनृपमहत्वं मन्दिरस्थः करोति। अञ्जनभृङ्गश्या-नवपुर्वा विन्दुविचित्रोऽव्यङ्गशरीरः। सर्पशिरा वास्थूलगलो यः सोऽपि नृपाणां राष्ट्रविवृद्ध्यै। वैदूर्य-त्विटस्थूलकण्ठस्त्रिकोणो गूढच्छिद्रश्चारुवंशश्च शस्तः। क्रीडावाप्यां तोयपूर्णे मणौ वा कार्यः कूर्मो भङ्गलार्थं नरेन्द्रैः”।
“उन्मीलने स्मृतः कूर्म्मो भिन्नाञ्जनसमप्रभः” शा॰ ति॰ टी॰[Page2166-b+ 38] उक्ते

२ देहस्थे वायुभेदे।

३ भगवदतारभेदे कमठशब्दे

१६

८० पृ॰ विवृतिः।

४ मुद्राभेदे तत्स्वरूसं तन्त्रसारे यथा
“वामहस्तस्य तर्जन्यां दक्षिणस्य कनिष्ठया। तथा दक्षि-णतर्जन्यां वामाङ्गुष्ठेन योजयेत्। उन्नतः दक्षिणाङ्गुष्टःवामस्य मध्यमादिगः। अङ्गुर्ली योजयेत् पृष्ठे दक्षिणस्यकरस्य च। वामस्य पितृतीर्थेन मध्यमानामिके तथा। अधोमुखे च ते कुर्य्याद्दक्षिणस्य करस्य च। कूर्म्मपृष्ठ-समंकुर्य्याद्दक्षपाणिञ्च सर्व्वतः। कूर्म्ममुद्रेयमाख्यातादेवताध्यानकर्म्मणि”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कूर्म्म¦ mf. (-र्म्मः-र्म्मी)
1. A tortoise, a turtle.
2. The descent of VISHNU as a tortoise to support the mountain Mandar at the churning of the ocean.
3. A peculiar gesticulation with the fingers. E. कु implying reverse, ऊर्म्मी speed, अच् aff.

"https://sa.wiktionary.org/w/index.php?title=कूर्म्म&oldid=288160" इत्यस्माद् प्रतिप्राप्तम्