कूर्म्मचक्रम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कूर्म्मचक्रम्, क्ली (कूर्म्माकारं चक्रम् । मध्यपदलोपी कर्म्मधारयः ।) कृषिकर्म्मोक्तकच्छपाकारचक्रम् । तस्याकारो यथा, -- “प्राङ्मुखो भगवान् देवः कूर्म्मरूपी व्यवस्थितः । आक्रम्य भारतं वर्षं नवभेदं यथाक्रमम्” ॥ तत्र नक्षत्रन्यासक्रमः । “मध्यप्रागग्नियाम्यादिकृत्तिकादित्रयत्रयैः । क्रूरवेधयुतैस्तैस्तु पीड्यन्ते तन्निवासिनः” ॥ तत्र वेधो यथा, -- “पूर्ब्बापरे भवेद्वेधो वेधश्चोत्तरदक्षिणे । ईशाने राक्षसे वेधो वेध आग्नेयमारुते । तारात्रयान्वितं तत्र सौरिं यत्नेन चिन्तयेत्” ॥ तत्र वेधादिजन्यदोषाः । “अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः । स्वचक्रं परचक्रञ्च सप्तैते सम्भवन्ति च ॥ एवं देशगृहग्रामक्षेत्रनामर्क्षतो वदेत् । तथा च यत्र नक्षत्रे दिव्यपार्थिवनाभसाः ॥ दृश्यन्ते सुमहोत्पाताः स्वां दिशं तत्र पीडयेत् । सौरिर्बलाधिपो दुष्टः स्वल्पवीर्य्यः शुभावहः ॥ एकदा पीडयेद्यत्र भानुजः कूर्म्मपञ्चके । तत्र स्थाने महाविघ्नो जायते नात्र संशयः ॥ दुष्टस्थाने गते चन्द्रे कर्त्तव्यं शान्तिपौष्टिकम्” ॥ तच्चक्रमध्यस्था देशाः । “मध्ये सारस्वता मत्स्याः शूरसेनाः समाथुराः । पञ्चालशाल्वमाण्डव्यकुरुक्षेत्रगजाह्वयाः ॥ मरुनैमिषविन्ध्याद्रिपाण्ड्यघोषाः सयामुनाः । काश्ययोध्या प्रयागश्च गया वैदेहकादयः” ॥ तत्र पूर्ब्बस्थदेशाः । “प्राच्यां मागधशोणौ च वारेन्द्रोगौडरा ढकाः । वर्द्धमानतमोलिप्तप्राग् ज्योतिषोदयाद्रयः” ॥ तत्राग्निकोणस्थदेशाः । “आग्नेय्यामङ्गवङ्गोपवङ्गत्रैपुरकोशलाः । कलिङ्गौड्रान्ध्रकिष्किन्ध्याविदर्भशवरादयः” ॥ तत्र दक्षिणस्थदेशाः । “दक्षिणेऽवन्तिमाहेन्द्रमलया ऋष्यमूककाः । चित्रकूटमहारण्यकाञ्चीसिंहलकोङ्कणाः । कावेरी ताम्रपर्णी च लङ्कात्रिकूटकादयः” ॥ तत्र नैरृतकोणस्थदेशाः । “नैरृते द्रविडानर्त्तमहाराष्ट्राश्च रैवतः । यवनः पह्नवः सिन्धुः पारसीकादयो मताः” ॥ तत्र पश्चिमस्थदेशाः । “पश्चिमे हैहयाऽस्ताद्रिम्लेच्छवासशकादयः” ॥ तत्र वार्युकोणस्थदेशाः । “वायव्ये गुज्जराटश्च नाटजालन्धरादयः” ॥ तत्र उत्तरस्थदेशाः । “उत्तरे चीननेपालहूनकैकेयमन्दराः । गान्धारहिमवत्क्रौञ्चगन्धमादनमालवाः । कैलासमद्रकाश्मीरम्लेच्छदेशाः खसादयः” ॥ तत्रेशानकोणस्थदेशाः । “ऐशाने स्वर्णभौमश्च गङ्गाद्वारस्तु टङ्कणः । वाह्लीकब्रह्मपुरककीराता दरदादयः” ॥ तस्माद्ग्रहर्क्षपीडासु देशपीडां विनिर्दिशेत् ॥ तत्र स्नात्वा प्रकुर्वीत दानहोमादिकं विधिम् । स एष वैष्णवः पादो ब्रह्मा मध्ये ग्रहस्य यः” ॥ * ॥ विष्णुः । स एव कश्यपसंज्ञया परिकीर्त्त्यते तत्प्रमा- णादिकं यथा, -- शतपथब्राह्मणे । ७ । ५ । १ । ५ । “स यत्कूर्म्मो नाम । प्रजापतिः प्रजा असृजत यदसृजताकरोत् तद् यदकरोत् तस्मात् कूर्म्मः कश्यपो वै कूर्म्मस्तस्मादाहुः सर्व्वाः प्रजाः का- श्यप्य” इति ॥ अत्र स्वामिदयानन्दकृतभाष्यम् । स यत् कूर्म्म इति । “परमेश्वरेणेदं सकलं जगत् क्रियते तस्मात्तस्य कूर्म्म इति संज्ञा । कश्यपो वै कूर्म्म इत्यनेन परमेश्वरस्यैव कश्यपनामास्ति । तेनैव इमाः सर्व्वाः प्रजा उत्पादितास्तस्मात् सर्व्वा इमाः प्रजाः काश्यप्य इत्युच्यन्ते । कश्यपः कस्मात् पश्यको भवतीति निरुक्त्या पश्यतीति पश्यः सर्व्वज्ञतया सकलं जगत् विजानाति स पश्यः पश्य एव निर्भ्रमतयातिसूक्ष्ममपि वस्तु यथार्थं जा- नात्येव अतः पश्यक इति । आद्यान्ताक्षरविपर्य्यया- सिद्धेःसिंहः कृतेस्तर्कुरित्यादिवत् कश्यप इति हय- वरट् इत्येतस्योपरि महाभाष्यप्रमाणेन पदं सिध्य- ति अतः सुष्टु विज्ञायते काश्यप्यः प्रजा इति” ॥ * ॥)
