सामग्री पर जाएँ

कूर्म्मपुराण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कूर्म्मपुराण¦ न॰ कूर्म्मेण भाषितं पुराणम्। व्यासप्रणीतेषुअष्ठादशसु महापुराणेषु पञ्चदशे पुराणे तत्प्रतिपाद्यविषथाश्च वृहन्ना॰ दर्शिता यथा(
“श्रीब्रह्मोवाच। शृणु वत्स! मरीचे! ऽद्य पुराणंकूर्म्मसंज्ञितम्। लक्ष्मीकल्पानुचरितं यत्र कूर्म्मवपु-र्हरिः। धर्म्मार्यकाममोक्षाणां माहात्म्यञ्च पृथक्पृयक्। इन्द्रद्युम्न्यसङ्गेन प्राहर्षिभ्यो दयाधिकम्। तत् सप्तदशसाहस्रं सचतुःसंहितं शुभम्। यत्र व्राह्म्या(संहितया) पुरा प्रोक्ता धर्म्मा नानावि{??} मुने!। नानाकथप्रसङ्गेन नॄणां सद्गतिदायकाः”। तत्पूर्वभागे
“तत्र पूर्बविभागे तु पुराणोपक्रमः पुरा। लक्ष्मीप्रद्यु-मृसेवादः कूर्मर्षिगणसङ्गथो। वर्णाश्रमाचारकथा[Page2167-b+ 38] जगदुत्प्रत्तिकीर्त्तनम्। कालसङ्ख्या समासेन लयान्तेस्तवनं विभोः। ततः सङ्क्षेपतः सर्गः शाङ्करंचरितं तथा। सहस्रनाम पार्वत्या योगस्य चनिरूपणम्। भृगुवंशसमाख्यानं ततः स्वायम्भुवस्यच। देवादीनां समुत्पत्तिर्दक्षयज्ञाहतिस्ततः। द-क्षसृष्टिकथा पश्चात् कश्यपान्वयकीर्त्तनम्। आत्रेयवंश-कथनं कृष्णस्य चरितं शुभम्। मार्क्कण्डकृष्णसंवादोव्यासपाण्डवसंकथा। युगचर्म्मानुकथनं व्यासजैमिनि-की कथा। वाराणस्याश्च महात्म्यं प्रयागस्य ततःपरम्। त्रैलोक्यवर्णनञ्चैव वेदशाखानिरूपणम्” तदत्तरभागे
“उत्तरेऽस्य विभागे तु पुरा गीतैश्वरी ततः। व्यासगीता ततः प्रोक्ता नानाधर्म्मप्रबोधनी। नानावि-धानां तीर्थानां महात्म्यञ्च पृथक् ततः। नानाधर्म-प्रकथनं

१ ब्राह्मीयं संहिता स्मता। अतः परं

२ भगवतीसंहितार्थनिरूपणे। कथिता यत्र वर्णानां पृथग्वत्तिरुदाहृता”। तदुत्तरभागे भगवत्याख्यद्वितीयसंहि-तायाः पञ्चसु पादेषु
“पादेऽस्याः प्रथमे प्रोक्ता ब्राह्मणानांव्यवस्थितिः। सदाचारात्मिका वत्स! भोगसौख्यविवर्द्ध-नी। द्वितीये क्षत्रियाणान्तु वृत्तिः सम्यक् प्रकीर्त्तिता। यया त्वाश्रितया पापं विधूयेह व्रजेद्दिवम्। तृतीयेवैश्यंजातीनां वृत्तिरुक्ता चतुर्विधा। यया चरितयासम्यक् लभते गतिमुत्तमाम्। चतुर्थेऽस्यास्तथा पादे शूद्र-वृत्तिरुदाहृता। यया सन्तुष्यति श्रीशो नॄणां श्रेयो-विवर्द्धनः। पञ्चमेऽस्यास्ततः पादे वृत्तिः सङ्करजन्म-नाम्। यया चरितयाप्नोति भाविनीमुत्तमां जनिम्। इत्येषा पञ्चपाद्युक्ता द्वितीया संहिता मुने!। तृतीया-त्रोदिता

३ सौरी नृणां कामविधायिनी। षोढा षट्कर्म-सिद्धिं सा वोधयन्ती च कामिनाम्। चतुर्थी

४ वैष्णवीनाम मोक्षदा परिकीर्त्तिता। चतुष्पदी द्विजादीनां सा-क्षात् ब्रह्मस्वरूपिणी। ताः क्रमात् षट्चतुर्द्द्वीषुसा-हस्राः परिकीर्त्तिताः”। तत्फलश्रुतिः
“एतत् कूर्मपुरा-णन्तु चतुर्वर्गफलप्रदम्। पठतां शृण्वतां नॄणां सर्वोत्-कृष्टगतिप्रदम्। लिखित्वैतत्तु यो भक्त्या हेमकूर्मसमन्वि-तम्। ब्राह्मणायायने दद्यात् स याति परमां गातम्”। तच्च पुराणम् तामसं
“मात्स्यं कौर्म्मं तथा लैङ्गंशैवं स्कान्दं तथैव च। अग्नेयञ्च षडेतानि तामसानिनिबोधत” पाद्मोत्तरख॰

४३ अ॰।

"https://sa.wiktionary.org/w/index.php?title=कूर्म्मपुराण&oldid=288172" इत्यस्माद् प्रतिप्राप्तम्