सामग्री पर जाएँ

कूर्म्मराजः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कूर्म्मराजः, पुं, (कूर्म्मरूपेण कूर्म्मेषु वा राजते यः । राज् + अच् ।) कच्छपराजः । तत्पर्य्यायः । अकू- पारः २ परीवर्त्तः ३ । इति जटाधरः । तथाहि । “पृथ्वि ! स्थिरा भव भुजङ्गम ! धारयैनां त्वं कूर्म्मराज ! तदिदं द्वितयं दधीथाः । दिक्कुञ्जराः कुरुत तत्त्रितये दिधीर्षा- मार्य्यः करोतु हरकार्म्मुकमाततज्यम्” ॥ इति महानाटकम् ॥ स एवादिकच्छपः । यथा । “विलोक्य विघ्नेशविधिं तदेश्वरो दुरन्तवीर्य्योऽवितथोऽभिसन्धिः । कृत्वा वपुः काच्छपमद्भुतं महत् प्रविश्य तोयं गिरिमुज्जहार ॥ सुरासुरेन्द्रैर्मुजवीर्य्यवेपितं परिम्रमन्तं गिरिमङ्ग ! पृष्ठतः । बिभ्रत्तदावर्त्तनमादिकच्छपो मेनेऽङ्गकण्डूयनमप्रमेयः” ॥ इति श्रीभागवते । ८ । ७ । ८, १० ॥

"https://sa.wiktionary.org/w/index.php?title=कूर्म्मराजः&oldid=128111" इत्यस्माद् प्रतिप्राप्तम्