कूर्म्मविभाग
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कूर्म्मविभाग¦ पु॰ कूर्म्मस्य तद्रुप भगवदवयवस्य विभागोऽत्न। [Page2168-a+ 38] वराह मिहिरोक्ते नक्षत्रभेदेन देशविशेषाणां शुभाशु-भबोधके ग्रन्थभेदे स च वृ॰ सं॰
१४ अध्यायः। यथा(
“नक्षत्रत्रयवर्गेराग्नेयाद्यैर्व्य वस्थितैर्नवधा। भारतवर्षेमध्यात् प्रागादि विभाजिता देशाः।
१ भद्रारिमेदमाण्डवामाल्वनीपोज्जिहानसङ्ख्याताः। मरुवत्सवोषयामुनसारस्वत-मत्स्यमाध्यमिकाः। माथुरकोपज्योतिष धर्मारण्यानि शू-रसेनाश्च। गौरग्रीवोद्देहिक पाण्डुगुडाऽश्वत्थपाञ्चालाः। साकेतकङ्ककुरुकालकोटिकुकुराश्च पारियात्रनगः। औदु-म्बरकापिष्ठलगजाह्वयाश्चेति मध्यमिदम्
३ ।
४ ।
५ । अथ
२ पूर्बस्यामञ्जनवृषभध्वजपद्ममाल्यवद्गिरयः। व्याघ्रमुखसु-ह्मकर्वटचान्द्रपुराः शूर्पकर्णाश्च। खसमगधशिषिरगिरि-मिथिलसमतटोड्राश्ववदनदन्तुरकाः। प्राग्ज्योतिषलौहि-त्यक्षीरोदसमुद्रपुरुषादाः। उदयगिरिभद्रगौडकपौण्ड्रौत्क-लकाशिमेकलाम्बष्ठाः। एकपदताम्रलिप्तिककोशलका वर्ध-मानश्च
६ ।
७ ।
८ । आग्नेय्यां
३ दिशि कोशलकलिङ्गवङ्गो-पवङ्गजठराङ्गाः। शौलिकविदर्भवत्सान्ध्नचेदिकाश्चोर्ध्व-कण्ठाश्च। वृषनालिकेरचर्मद्वीषा विन्ध्यान्तवासिनस्त्रिपुरा। श्मश्रुधरहेमकूटव्यालग्रीवा महाग्रीवाः। किष्किन्धक-ण्टकस्थलनिषादराष्ट्राणि पुरिकदाशार्णा। सहनग्नप-र्णशवरैरश्लेषाद्ये
९ ।
१० ।
११ । त्रिके देशाः। अथ दक्षि-णेन
४ लङ्का कालाजिनसौरिकीर्ण तालिकटाः। गिरिन-गरमलयदर्दुरमहेन्द्रमालिन्द्यभरुकच्छाः। कङ्कटटङ्कणव-नवासिशिविकफणिकारकोङ्कणाभीराः। आकरवेणा-वल्लकदशपुरगोनर्दकेरलकाः। कर्णाटमहाटविचित्रकूट-नासिक्यकोल्लगिरिचोलाः। क्रौञ्चद्वीपजटाधरकावेर्यो-रिष्यमूकश्च। वैदूर्यशङ्खमुक्तात्रिवारिचरधर्मपट्टनद्वीपाः। गणराज्यकृष्णवेल्लुरपिशिकशूर्पाद्रिकुसुमनगाः। तुम्बवरकार्मणेयकयाम्योदधितापसाश्रमा ॠषिकाः। काञ्चीमरु-चीपट्टनचेर्यार्यकसिंहला ऋषभाः। बलदेवपट्टनं द-ण्डकावनतिमिङ्गिलाशना भद्राः। कच्छोऽथ कुञ्जरदरीसताम्रपर्णीति विज्ञेयाः
१२ ।
१३ ।
१४ । नैरृत्यां दिशि
५ देशाः पह्नवकाम्बोजसिन्धुसोवीराः। बडवामुखारवाम्ब-ष्ठकपिलनारीमुखानर्ताः। फेनगिरियवनमाकरकर्णप्रा-येयपारसवशूद्राः। व र्वरकिरातखण्डक्रव्यादाभीरचञ्चू-काः। हेमगिरिसिन्धुकालकरैवतक्रसुराष्ट्रबादरद्रवि-डाः। स्वात्यादो भत्रितये
१५ ।
१६ ।
१७ । ज्ञेयश्च महा-र्णवोऽत्रैव। अपरस्यां
६ मणिमान् मेघवान् वनौघः क्षु-रापेणीऽस्तगिरिः। अपरान्तकशान्तिकद्दैहयप्रशस्तादिवो-[Page2168-b+ 38] क्वाणाः। पञ्चनदरमठपा{??}तारक्षितिजृङ्ग्वैश्यकनकश-काः। निर्मर्यादा म्लेच्छा ये पश्चिमदिक्स्थितास्ते च
१८ ।
१९ ।
२० । दिशि
७ पश्चिमोत्तरस्यां माण्डव्यतुषारता-लहलमद्राः। अश्मककुलूतलहडस्त्रीराज्यनृसिंहवन-खस्थाः। वेणुमती फल्गुलुका गुरुहा मरुकूर्चचर्मर-ङ्गाख्याः। एकविलोचनशूलिकदीर्घग्रीवास्यकूशाश्च
२१ ।
२२ ।
२३ । उत्तरतः
८ कैलासो हिमवान्वसुमान् गिरि-र्धनुष्मांश्च। क्रौञ्चो मेरुः कुरवस्तथोत्तराः क्षुद्रमी-नाश्च। कैकयवसातियामुनभोगस्थार्जुनायनाग्नीध्राः। आदर्शान्तद्वीपित्रिगर्ततुरगाननाश्वमुखाः। केशधरचिपि-टनासिकदासेरकवाटधानशरधानाः। तक्षशिलापुष्कला-वतकैलावतकण्ठधानाश्च। अम्बरमद्रकमालवपौरवकच्छार-दण्डपिङ्गलकाः। माणहलहूणकोहलशीतकमाण्डव्य-भूतपुराः। गान्धारयशोवतिहेमतालराजन्यखचरगव्याश्च। यौधेयदासमेयाः श्यामार्काः क्षेमधूर्ताश्च
२४ ,
२५ ,
२६ ,। ऐशान्यां
९ मेरुकनष्टराज्यपशुपालकीरकाश्मीराः। अ-भिसारदरदतङ्गणकुलूतसैरिन्ध्रवनराष्ट्राः। ब्रह्मपुरदार्व-डामरवनराज्यकिरातचीमकौलिन्दाः। भल्लापलोल-जटासुर कुनठखषघोषकुचि(वि)काख्याः। एकचरणानु-विश्वाः सुवर्णभूर्वसुवनं दिविष्ठाश्च। पौरवचीरनिवसनत्रि-नेत्रमुञ्जाद्रिगन्धर्वाः
२७ ।
१ ।
२ । वर्गैराग्नेयाद्यैः क्रूरग्रह-पीडितैः क्रमेण नृपाः। पाञ्चालो मागधिकः कालिङ्गश्च-क्षयं यान्ति। आवन्तोऽथानर्तो मृत्युं चायाति सिन्धु-सौवीरः। राजा च हारहौरो मद्रशोऽन्यश्च कौलिन्दः”।
