कूल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूल, आवृतौ । इति कविकल्पद्रुमः ॥ (भ्वां--परं-- सकं--सेट् ।) षष्ठस्वरी । कूलति वाटी प्राचीरम् । इति दुर्गादासः ॥

कूलम्, क्ली, (कूलति जलप्रवाहं आवृणोतीति । कूल् + अच् ।) नद्या जलसमीपस्थानम् । (यथा, रघुः । १६ । ३५ । “इत्यध्वनः कैश्चिदहोभिरन्ते कूलं समासाद्य कुशः सरय्वाः” ॥) तत्पर्य्यायः । रोधः २ तीरम् ३ प्रतीरम् ४ तटम् ५ तटः ६ तटी ७ । इत्यमरः । १ । १० । ७ ॥ रोधम् ८ । इति शब्दरत्नावली ॥ वेला ९ । इति जटाधरः ॥ (कूल्यते आब्रियतेऽसौ । कूल + घञर्थे कः ।) स्तूपः । सैन्यपृष्ठम् । तडागः । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूल नपुं।

तीरम्

समानार्थक:कूल,रोध,तीर,प्रतीर,तट

1।10।7।2।1

चक्राणि पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः। कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु॥

अवयव : परतीरम्,अवरतीरम्

 : परतीरम्, अवरतीरम्, जलादचिरनिर्गततडम्, वालुकामयतडम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूल¦ आवृतौ भ्वा॰ पर॰ सक॰ सेट्। कूलति अकूलीत् चु-कूल प्रनिकूलति कूलम्।
“तासां प्राजमानो योनिम-कूलयत्” टत॰ व्रा॰

४९ ।

कूल¦ न॰ कूलति आवृणोति जलप्रवाहम् कूल--अच्। नद्या-देस्तीरे।
“नदीकूलं यथा वृक्षः” मनुः
“नदीवोभयकूल-भाक्” रघुः।
“कुकूज कूले कलहंसमण्डली” नैष॰। कर्म्मणि घञर्थे क।

२ स्तूपे

३ तडागे

४ सैन्यपृष्ठे च विश्वः[Page2169-a+ 38]

६ अन्तिके
“कुलायकूलेषु विलुट्य ते सुताः” नैष॰।
“कूलायकूलेषु नीडान्तिकेषु” मल्लि॰। बलादि॰ अस्त्यर्थे वा मतुप्मस्य वः। कुलवत् पक्षे इनिः कूलिन्। तद्युक्ते त्रि॰ स्त्रियांङीप्। ततः धूमा॰ सौवीरे सम्बन्धिन्यर्थे वुञ्। कौलक कूलसम्बन्धिनि सौवीरे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूल¦ r. 1st cl. (कूलति) To cover, to hide, to screen, to enclose: with अनु prefixed, to protect, to be kind to, as to a follower or dependent.

कूल¦ n. (-लं)
1. A bank, a shore.
2. A heap, a mound.
3. A pond or pool.
4. The rear of an army. E. कूल् to cover, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूलम् [kūlam], 1 A shore, bank; राधामाधवयोर्जयन्ति यमुनाकूले रहः- केलयः Gīt.1; नदीवोभयकूलभाक् R.12.35,68; चुकूज कूले कलहंसमण्डली N. यथा महामत्स्य उभे कूले अनुसंचरति Bṛi. Up. 4.3.18.

A slope, declivity.

Skirt, edge, border, proximity; आस्तीर्य दर्भान्प्राक्कूलान् Bhāg.8.24.4; कुलाय- कूलेषु विलुट्य तेषु ते N.1.141.

A pond.

The rear of an army.

A heap, mound. -Comp. -चर a. frequenting or grazing on the banks of a river. -तण्डुलः Breakers, surges. -भूः f. the land on a bank. -हण्डकः, -हुण्डकः an eddy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूल n. a declivity , slope RV. viii , 47 , 11

कूल n. a shore , bank S3Br. xiv Nir. Mn. etc. ( ifc. Pa1n2. 6-2 , 121 ; 129 and 135 ; f( आ). MBh. xiv , 1163 )

कूल n. a heap , mound , tope Car.

कूल n. a pond or pool L.

कूल n. the rear of an army L.

कूल n. N. of a locality g. धूमा-दि

कूल n. ([ cf. अज-कूला, अनु-कूल, उत्-क्etc. ; cf. also Hib. cul , " custody , guard , defence , back part of anything " ; col , " an impediment " ; Lat. collis?])

"https://sa.wiktionary.org/w/index.php?title=कूल&oldid=497005" इत्यस्माद् प्रतिप्राप्तम्