कूलम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कूलम्, क्ली, (कूलति जलप्रवाहं आवृणोतीति । कूल् + अच् ।) नद्या जलसमीपस्थानम् । (यथा, रघुः । १६ । ३५ । “इत्यध्वनः कैश्चिदहोभिरन्ते कूलं समासाद्य कुशः सरय्वाः” ॥) तत्पर्य्यायः । रोधः २ तीरम् ३ प्रतीरम् ४ तटम् ५ तटः ६ तटी ७ । इत्यमरः । १ । १० । ७ ॥ रोधम् ८ । इति शब्दरत्नावली ॥ वेला ९ । इति जटाधरः ॥ (कूल्यते आब्रियतेऽसौ । कूल + घञर्थे कः ।) स्तूपः । सैन्यपृष्ठम् । तडागः । इति विश्वः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कूलम् [kūlam], 1 A shore, bank; राधामाधवयोर्जयन्ति यमुनाकूले रहः- केलयः Gīt.1; नदीवोभयकूलभाक् R.12.35,68; चुकूज कूले कलहंसमण्डली N. यथा महामत्स्य उभे कूले अनुसंचरति Bṛi. Up. 4.3.18.
A slope, declivity.
Skirt, edge, border, proximity; आस्तीर्य दर्भान्प्राक्कूलान् Bhāg.8.24.4; कुलाय- कूलेषु विलुट्य तेषु ते N.1.141.
A pond.
The rear of an army.
A heap, mound. -Comp. -चर a. frequenting or grazing on the banks of a river. -तण्डुलः Breakers, surges. -भूः f. the land on a bank. -हण्डकः, -हुण्डकः an eddy.
