कूष्माण्ड
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कूष्माण्डः, पुं, (कु ईषत् ऊष्मा अण्डेषु वीजेषु यस्य ।) कर्कारुः । गणदेवताविशेषः । इति हेमचन्द्रः ॥ (कूष्माण्डाकारत्वात् शिवगणोऽपि तन्नाम्नाऽऽख्या- यते । यथा, भागवते २ । ६ । ४२ । “अन्ये च ये प्रेतपिशाचभूतकूष्माण्डयादोमृगपक्ष्यधीशाः” ॥ ऋषिविशेषः । यथा, याज्ञवल्क्ये । “कुष्माण्डो राजपुत्त्रश्चेत्यन्ते स्वाहासमन्वितैः” ॥ यजुर्वेदिकमन्त्रविशेषः । यथा, मनुः ८ । १०६ । “कुष्माण्डैर्वापि जुहुयाद् घृतमग्नौ यथाविधि” ॥ “कुष्माण्डमन्त्रा यजुर्वेदिकाः यद्देवा देवहेलनमित्ये- वमादयः । तैर्मन्त्रदेवतायै घृतमग्नौ जुहुयात्” । इति तट्टीकायां कुल्लूकभट्टः ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कूष्माण्ड¦ पु॰ ईषदूष्माण्डेषु वीजेष्यस्य।
१ कुष्माण्डशब्दार्थे
२ शिवपारिषदभेदे हेमच॰
“अन्ये च ये प्रेतपिशाचभूतकूष्माण्डयादोमृगपक्ष्यधीशाः” भाग॰
२ ,
६ ,
४५ ।
३ ऋषिभेदे पु॰
“कूष्माण्डोराजपुत्रश्चेत्यन्ते स्वाहासमन्वितैः” या॰ स्मृ॰तद्दृष्टत्वात्
“यद्देवा देवहेडनमित्याद्यासु
४ ऋक्षु स्त्रीङीप्
“त्रिरात्रोपोषितोभूत्वा कूष्माण्डीभिर्घृतं शुचिः। सुरापः स्वर्ण्णहारी च रुद्रजापी जलेस्थितः” याज्ञ॰ स्मृ॰।
“त्रिरात्रमुपोषितः कूष्माण्डीभिर्यद्देवादेवहेडनमित्या-द्याभिः कूष्माण्डदृष्टाभिरनुष्टुब्भिर्मन्त्रलिङ्गदेवताभिरृ-ग्भिश्चत्वारिंशद्वृताहुतीर्हुत्वा शुचिर्भवेत्। तथा बौ-धायनेनाप्युक्तम्
“अथ कूष्माण्डीभिर्जुहुयाद्योऽपूतमिवा-त्मानं मन्येत यदर्वाचीनमेनो भ्रूणहत्यायास्तस्मान्मुच्यांअयोनौ वा रेतः सिक्त्वा अन्यत्र स्वप्नादिति”। मिता॰
“सर्व्ववेदपवित्राणि वक्ष्याम्यहमतः परम्। येषाञ्जपैश्चहोमैश्च पूयन्ते नात्र संशयः। अघमर्षणन्देवकृतः शुद्ध-वत्यस्तरत्समाः। कूष्माण्ड्यः पावमान्यश्च दुर्गासावित्य-थैव च” मिताक्षरायां वशिष्ठस्मृः। स्वार्थे क। तत्रार्थे
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कूष्माण्ड¦ mf. (-ण्डः-ण्डी) A pumpkin gourd, (Cucurbita pepo.) m. (-ण्डः) A [Page197-b+ 60] kind of spirit or imp, of which there exists a Gana or class. f. (-ण्डी) A name of DURGA; also कुष्माण्ड and कूष्माण्डक।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कूष्माण्डः [kūṣmāṇḍḥ], 1 A kind of pumpkin gourd.
A kind of spell or magical formula; cf. Vāj.2.14-16.
A kind of spirit, or imp; Bhāg.2.6.44. -डी N. of Durgā.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कूष्माण्ड v.l. for कुष्म्See.
कूष्माण्ड n. sg. and pl. id. Gaut. Mn. viii , 106.
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a विनायक. M. १८३. ६३.
--a सूक्त of the Yajur Vedins to be recited in tank rituals. M. ५८. ३५; २३९. १०.
Vedic Rituals Hindi
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कूष्माण्ड पु.
पवित्र अगिन् की स्थापना के पूर्व ‘अमात्य- आहुतियों’ के बाद शुद्धीकरण के लिए दी जाने वाली आहुति का नाम, श्रौ.प.नि. 42.355; श्रौ.को. (अं.) 1.23; इसकी आहुति औपासन अगिन् में दी जाती है, वही 1.24; वैखा.श्रौ.सू. 1.1-6=कूष्माण्ड; ऋचा का नाम, वा.सं. 2०.14.