कूष्माण्डी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कूष्माण्डी, स्त्री, (कूष्माण्ड + गौरादित्वात् जातित्वात् वा ङीष् ।) ओषधिः । अम्बिका । इति हेमचन्द्रः ॥ (अम्बिकायाश्च कूष्माण्डबलिप्रियत्वात् तथात्वम् । मन्त्रात्मकदेवतासु ऋक्षु तु स्त्रियां ङीप् । यथा, याज्ञवल्क्ये । “त्रिरात्रोपोषितो भूत्वा कूष्माण्डीभिर्घृतं शुचिः । सुरापः स्वर्ण्णहारी च रुद्रजापी जले स्थितः” ॥ “त्रिरात्रसुपोषितः कूष्माण्डीभिर्यद्देवा देवहेडन- मित्याद्याभिः कूष्माण्डदृष्टाभिरनुष्टुव्भिर्मन्त्रलिङ्ग- देवताभिरृग्भिश्चत्वारिंशद्घृताहुतीर्हुत्वा शुचि- र्भवेत्” ॥ तथा, मिताक्षरायाम् । “अथ कूष्माण्डी- भिर्जुहुयाद्योऽपूतमिवात्मानं मन्येत यदर्व्वाची- नमेनोम्रूणहत्यायास्तस्मान्मुच्यते अयोनौ वा रेतः सिक्त्वा अन्यत्र स्वप्नादिति” । वशिष्ठस्मृतौ च । “सर्व्ववेदपवित्राणि वक्ष्यामहमतः परम् । येषां जपैश्च होमैश्च पूयन्ते नात्रसंशयः ॥ अघमर्षणं देवकृतः शुद्धवत्यस्तरत् समाः । कूष्माण्ड्यः पावमान्यश्च दुर्गासावित्र्यथैव च” ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कूष्माण्डी¦ स्त्री ईषदूष्माऽण्डेष्ठ्वस्याः गौरा॰ ङीष्।
१ ओष-[Page2170-a+ 39] धिभेदे
२ कर्कारौ
३ दुर्गायाञ्च हेमच॰। दुर्गायाश्च कूष्माण्डबलिप्रियत्वात्तथात्वम्।
“कुष्माण्डी तु भृशं लघ्वी क-र्कारुः परिकीर्त्तिता” भावप्र॰। चऋग्विशेषे च
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कूष्माण्डी f. id. (See. कुष्म्)
कूष्माण्डी f. pl. N. of the verses VS. xx , 14-16 (spoken in a certain rite for penance or expiation) Ya1jn5. iii , 304