सामग्री पर जाएँ

कृकरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कृकरः, पुं, (कृ करणं सृष्ट्यादिकार्य्यं करोतीति । कृ + ट ।) शिवः । इति त्रिकाण्डशेषः ॥ (कृ इति क्षुतादिशब्दं करोतीति ।) शरीरवाह्यपञ्च- वाय्वन्तर्गतवायुविशेषः । यथा, -- “कृकरस्तु क्षुते चैव जवाकुसुमसन्निभः” । इति शारदातिलकटीका ॥ कृकणपक्षी । इति शब्दरत्नावली ॥ चव्यकम् । करवीरवृक्षः । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=कृकरः&oldid=128141" इत्यस्माद् प्रतिप्राप्तम्