कृकलासः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कृकलासः, पुं, (कृकं कण्टं लासयति शोभान्वितं करोतीति । कृक + लस + णिच् अच् ।) जन्तु- विशेषः । का~कलास् इति भाषा ॥ (यथा, भागवते । ८ । १० । ११ । “शिवाभिराखुभिः केचित् कृकलासैः शशैर्नरैः” ।) तत्पर्य्यायः । सरटः २ । इत्यमरः । २ । ५ । १२ ॥ वेदारः ३ क्रकचपात् ४ तृणाञ्जनः ५ प्रतिसूर्य्यः ६ । इति त्रिकाण्डशेषः ॥ प्रतिसूर्य्यकयानकः ७ वृत्तिस्थः ८ कण्टकागारः ९ दुरारोहः १० द्रुमा- श्रयः ११ । इति राजनिर्घण्टः ॥ (सूर्य्यवंशोद्भवो- नृगनामको राजा ब्रह्मगोहरणेन कृकलासत्वं गतस्तद्विवरणं महाभारते १३ । ७० अध्याये । उक्तं यथा, -- “अत्रैव कीर्त्त्यते सद्भिर्ब्राह्मणस्वाभिमर्षणे । नृगेण सुमहत्कृच्छ्रं यदवाप्तं कुरूद्वह ! ॥ अदृश्यत महाकूपस्तृणवीरुत्समावृतः । प्रयत्नं तत्र कुर्व्वाणास्तस्मात् कूपाज्जलार्थिनः ॥ श्रमेण महता युक्तास्तस्मिंस्तोये सुसंवृते । ददृशुस्ते महाकायं कृकलासमवस्थितम् ॥ तस्य चोद्धरणे यत्नमकुर्व्वंस्ते सहस्रशः । प्रग्रहैश्चर्म्मपट्टैश्च तं बद्ध्वा पर्व्वतोपमम् । नाशक्नुवन् समुद्धर्त्तुं ततो जग्मुर्जनार्द्दनम् । खमावृत्योदपानस्य कृकलासः स्थितो महान् । तस्य नास्ति समुद्धर्त्तेत्येतत् कृष्णे न्यवेदयन्” ॥)
