सामग्री पर जाएँ

कृच्छ्रातिकृच्छ्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कृच्छ्रातिकृच्छ्रः, पुं, (कृच्छ्रात् कष्टादपि अतिकृच्छ्रः ।) व्रतविशेषः । यथा, वशिष्ठः । “अब्भक्षस्तृतीयः कृच्छ्रातिकृच्छ्रो यावत् सकृदाददीत । यावदेकवार- मुदकं हस्तेनं ग्रहीतुं शक्नोति तावन्नवसु दिवसेषु भक्षयित्वा त्र्यहमुपवासः कृच्छ्रातिकृच्छ्रः” ॥ सुमन्तु- र्यंथा । “द्वादशरात्रं निराहारः स कृच्छ्रातिकृच्छ्रः । एतत् कृच्छ्रातिकृच्छ्रद्वयं द्वादशाहसाध्यमशक्तविष- यम्” ॥ ब्रह्मपुराणम् । “चरेत् कृच्छ्रातिकृच्छ्रञ्च पिबेत्तोयञ्च शीतलम् । एकविंशतिरात्रन्तु कालेष्वेतेषु संयतः” ॥ कालेष्विति प्रातःसायंमध्याह्नेष्वित्यर्थः । इति प्रायश्चित्तविवेकः ॥ (यथा, मनुः ११ । २०८ । “अवगूर्य्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने । कृच्छ्रातिकृच्छ्रौ कुर्व्वीत विप्रस्योत्पाद्य शोणितम्” ॥)

"https://sa.wiktionary.org/w/index.php?title=कृच्छ्रातिकृच्छ्रः&oldid=128157" इत्यस्माद् प्रतिप्राप्तम्