कृच्छ्रार्द्धः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कृच्छ्रार्द्धः, पुं, (कृच्छ्रस्य अतीवक्लेशसहव्रतविशेषस्य अर्द्धः अंशविशेषः । दिनषट्कसाध्यत्वात्तथात्वम् ।) दिनषट्कसाध्यव्रतविशेषः । यथा, आपस्तम्बः । “सायं प्रातस्तथैकैकं दिनद्वयमयाचितम् । दिनद्वयञ्च नाश्नीयात् कृच्छ्रार्द्धः सोऽभिधीयते” ॥ इति प्रायश्चित्तविवेकः ॥
