सामग्री पर जाएँ

कृतकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कृतकम्, क्ली, (कृत + संज्ञायां कन् ।) विडलवणम् । इत्यमरः ॥ (अस्य पर्य्याया यथा, “विडम्पाक्यञ्च कृतकं तथा द्राविडमासुरम्” ॥ इति भावप्रकाशे पूर्ब्बखण्डे प्रथमे भागे ॥ कृन्ततीति कृती छेदने + “बहुलमन्यत्रापि” । उणां २ । ३७ । इति क्वुन् । मिथ्या । इत्यु- ज्ज्वलदत्तः ॥ पुं, वसुदेवस्य मदिरायां पत्न्यां जातः पुत्त्रविशेषः । यथा, भागवते ९ । २४ । ४८ । “नन्दोपनन्दकृतकशूराद्या मदिरात्मजाः” ॥ त्रैलोक्यमेतत् कृतकमित्युच्यते कार्य्यत्वात् । यथा, विष्णुपुराणे । २ । ७ । १६-२० । “पादगम्यन्तु यत्किञ्चित् वस्त्वस्ति पृथिवीमयम् । स भूर्लोकः समाख्यातो विस्तारोऽस्य मयोदितः ॥ भूमिसूर्य्यान्तरं यत्तु सिद्धादिमुनिसेवितम् । भुवर्लोकस्तु सोऽप्युक्तो द्वितीयो मुनिसत्तम ! ॥ ध्रुवसूर्य्यान्तरं यच्च नियुतानि चतुर्द्दश । स्वर्लोकः सोऽपि गदितो लोकसंस्थानचिन्तकैः ॥ त्रैलोक्यमेतत् कृतकं मैत्रेय ! परिपठ्यते । जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम् ॥ कृताकृतकयोर्मध्ये मर्हलोक इति स्मृतः । शून्यो भवति कल्पान्ते योऽत्यन्तं न विनश्यति” ॥ अत्र व्याख्यायां श्रीमत्स्वामिपादेनोक्तम् । यथा, -- “त्रैलोक्यं कृतकं प्रतिकल्पं कार्य्यत्वात् । जनर्लोकादित्रयं अकृतकं प्रतिकल्पमकार्य्यत्वात् ॥ महलाकस्य कृताकृतत्वे हेतुमाह शून्य इति” ॥)

"https://sa.wiktionary.org/w/index.php?title=कृतकम्&oldid=128168" इत्यस्माद् प्रतिप्राप्तम्