सामग्री पर जाएँ

कृतज्ञः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कृतज्ञः, त्रि, (कृतं उपकृतं जानाति स्वीकरोति यः । ज्ञा + कः ।) मर्य्यादी । (यथा, मनुः । ७ । २०९--२१० “धर्म्मज्ञञ्च कृतज्ञञ्च तुष्टिप्रकृतिमेव च । अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते ॥ प्राज्ञं कुलीनं शूरञ्च दक्षं दातारमेव च । कृतज्ञं धृतिमन्तञ्च कष्टमाहुररिं बुधाः” ॥) कुक्कुरे, पुं । इति मेदिनी ॥ (पुं, विष्णुः । यथा, महाभारते १३ । १४९ । २२ । “अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्” ॥)

"https://sa.wiktionary.org/w/index.php?title=कृतज्ञः&oldid=128181" इत्यस्माद् प्रतिप्राप्तम्