सामग्री पर जाएँ

कृतपूर्व्वी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कृतपूर्व्वी, [न्] त्रि, (कृतं निष्पादितं पूर्व्वमनेन । कृतपूर्ब्ब + “सपूर्ब्बाच्च” । ५ । २ । ८७ । इति इनिः ।) पूर्ब्बनिष्पन्नकर्म्मा । यथा । कृतपूर्ब्बो कटम् । इति संक्षिप्तसारव्याकरणम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कृतपूर्व्वी¦ त्रि॰ कृतं पूर्व्वमनेन
“सपूर्ब्बाच्च” पा॰ इनि। कृतपू-र्व्वकर्म्मके तद्बोधप्रकारः सरलायामस्माभिनिर्रूपतो यथा(
“कृतपूर्बी कटं भुक्तपूर्बी ओदनमित्यादिमहाभाष्य-कारप्रयोगा दृश्यन्ते तत्र च कृतं पूर्बमनेनेति विग्रहे
“सह सुपा” इति पा॰ समासे पूर्व्वादिनिरितीनेरनुवृत्तिमता
“सपूर्बाच्चेति” पा॰ सूत्रेण इनिर्विहितः तत्र यदि कृत-मिति कर्मणि क्तः स्यात् तदा तस्य कटादिकर्म्मरूपवि-शेषणतया सापेक्षत्वेन पूर्वादिपदेन समासो न स्यात् एकत्रविशेषणतयोपस्थितस्यान्यत्र विशेषणतयान्वयायोगात्न वृत्तिसम्भवः। भाष्यप्रामाण्याच्च तत्र वृत्तौ सत्यामेषारीतिराकलनीया तयाहि प्रथमं कर्माविवक्षयाऽकर्मकत्वेनभावे क्तप्रत्यये विहिते तदन्तेन पूर्वस्य
“सह सुपेति” पा॰ समासे कृत तत्पूर्वकात् पूर्बशब्दादिनिप्रत्ययो भवति। पश्चाच्च कर्त्तृकृतक्रियायाः कर्माकाङ्क्षायां कटादि-कर्मणोऽन्वयः एतदेव हरिणा दर्शित यथा
“अकर्मकत्वेसत्येव क्तान्ते भावाभिधायिनि। पश्चात् क्रियावताकर्त्त्रा योगो भवति कर्मणा। अविग्रहा गतादिस्था[Page2179-b+ 38] यथा ग्रामादिकर्म्मभिः। क्रिया सम्बध्यते तद्वत् कृत-पूर्व्यादिषु स्थितेति”। गमनकर्तृवाचकगतादिमध्यपातिनीगमनक्रिया कर्त्तृविशेषणत्वेनोपस्थिता यथा अविग्रहाअसुबोधा तथा कृतपूर्वकर्त्तृवोधककृतपूर्विमध्यपातिन्य-पीति तदर्थः”।

"https://sa.wiktionary.org/w/index.php?title=कृतपूर्व्वी&oldid=289250" इत्यस्माद् प्रतिप्राप्तम्