कृतमालः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कृतमालः, पुं, (कृता माला अस्य । मालावदुत्पन्नप्रसु- नत्वादस्य तथात्वम् ।) आरग्बधवृक्षः । सो~दालि इति भाषा । इत्यमरः । २ । ४ । २४ ॥ कर्णिका- रवृक्षः । स तु लघ्वारग्बधः । इति राजनिर्घण्टः । छोट शोनालु इति भाषा ॥ (अस्य पर्य्याया यथा । “आरेवतो राजवृक्षः प्रग्रहश्च तुरङ्गलः । आरग्बधोऽथ शम्पाकः कृतमालः सुवर्णकः” ॥ इति वैद्यकरत्नमालायाम् ॥ चरके कल्पस्थाने ऽष्टमेऽध्याये ऽस्य पर्य्याया यथा । “आरग्बधो राजवृक्षः सम्पाकश्च तुरङ्गुलः । प्रग्रहः कृतमालश्च कर्णिकारोऽवघातकः” ॥)
