कृतम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कृतम्, क्ली, (क्रियते सत्यमेवानुष्ठीयतेऽस्मिन् यद्वा क्रियते सत्ये स्थाप्यते लोको यत्र । कृ + क्तः ।) सत्ययुगम् । (यथा, विष्णुपुराणे । २ । १ । ४३ । “कृतत्रेतादिसर्गेण युगाख्यां ह्येकसप्ततिः” ॥) पर्य्याप्तम् । इत्यमरः । ३ । ३ । ७६ ॥ फलम् । इति हेमचन्द्रः ॥ अलमर्थः । इति मेदिनी ॥ (यथा, -- शाकुन्तले १ माङ्के । “अथवा कृतं सन्देहेन” ॥ पुं, वसुदेवस्य रोहिण्यां पत्न्यां जातः पुत्त्रविशेषः । यथा, भागवते ९ । २४ । ४६ । “बलं गदं सारणञ्च दुर्म्मदं विमलं ध्रुवम् । वसुदेवस्तु रोहिण्यां कृतादीनुदपादयत्” ॥)
कृतम्, त्रि, (क्रियते विधीयते हन्यते निष्पाद्यते वा । कृ + कर्म्मणि क्तः ।) विहितम् । (यथा, वेणीसंहारे । “कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकम्” ॥) हिंसितम् । इति मेदिनी ॥ निष्पादितम् । इत्य- मरटीकायां मथुरानाथः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कृतम्¦ अव्य॰ कृत--बा॰ कमु। अलमर्थे, निषेधे च।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कृतम् [kṛtam], ind. Enough, no more of, away; (with instr.); अथवा कृतं संदेहेन Śi.1; अथवा गिरा कृतम् R.11.41; कृत- माविष्कृतपौरुषैर्भुजैः Ki.2.17; कृतमश्वेन U.4.
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--sets in when the sun, moon, तिष्य and बृहस्- pati (Planet Jupiter) are in the same mansion. Vi. IV. २४. १०२.