सामग्री पर जाएँ

कृताञ्जलिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कृताञ्जलिः, त्रि, कृतः अञ्जलिः येन सः । बद्धाञ्जलिः । यथा, छन्दोगपरिशिष्टे । “तदसंयुक्तपार्ष्णिर्व्वा एकपादर्द्धपादपि । कुर्य्यात्कृताञ्जलिर्व्वापि ऊर्द्ध्वबाहुरथापि वा” ॥ इति सूर्य्योपस्थाने आह्निकाचारतत्त्वम् ॥ (कृतः अञ्जलिरिव पत्रसङ्कोचो येन ।) ओषधिभेदे, पुं । इति धरणी ॥

"https://sa.wiktionary.org/w/index.php?title=कृताञ्जलिः&oldid=128209" इत्यस्माद् प्रतिप्राप्तम्