सामग्री पर जाएँ

कृतान्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कृतान्तः, पुं, (कृतः अन्तः नाशः, शास्त्रनिर्णयः, विप- र्य्ययो वा येन । यथायथं व्युत्पत्तिर्दर्शनीया ।) यमः । (यथा, गोः रामायणे । ५ । ३५ । ३ । “ऐश्वर्य्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे । रज्ज्वेव पुरुषो बद्ध्वा कृतान्तेनोपनीयते” ॥) सिद्धान्तः । (यथा, भगवद्गीतायाम् । १४ । १३ । “पञ्चेमानि महाबाहो कारणानि निबोध मे । साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्व्वकर्म्मणाम्” ॥) दैवम् । पूर्ब्बदेहकृतं फलोन्मुखीभूतं शुभाशुभ- कर्म्म । अकुशलकर्म्म । इत्यमरः । ३ । ३ । ६४ ॥ शनिवारः । इति शब्दचन्द्रिका ॥ (यथा, तिथि- तत्त्वधृतज्योतिषवचने । “कृतान्तकुजयोर्वारे यस्य जन्मदिनं भवेत्” ॥ यमदैवत्यमरणीनक्षत्रम् । तेन द्वित्वसङ्ख्या ॥ अश्वि- यमदहनेति वचनात् ॥)

"https://sa.wiktionary.org/w/index.php?title=कृतान्तः&oldid=128211" इत्यस्माद् प्रतिप्राप्तम्