कृत्तिवासस्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कृत्तिवासस् पुं।
शिवः
समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि
1।1।31।2।2
भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः। मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः॥
अवयव : शिवस्य_जटाबन्धः
पत्नी : पार्वती
जनक : शक्तिदेवता
सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा
वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः
जन्य : गणेशः,कार्तिकेयः
सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा
पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कृत्तिवासस्¦ पु॰ कृत्तिर्गजासुरचर्म्म वासोयस्य। महादेवेयथाच तस्य तद्वसनत्वं तथा काशी॰
६८ अ॰ वर्ण्णितं यथा
“कोलाहलो महानासीत् त्रात त्रातेति सर्वतः। महिषा-सुरपुत्रोऽसौ समायाति गजासुरः। प्रमथ्नन् प्रम-थान् सर्वान् निजवीर्य्यमदोद्धतः। यत्र यत्र ध-रायां स चरणं प्रमिणोति हि। अचलान् दोलया-ञ्चक्रे तत्र तत्रास्य भारतः। उरुवेगेन तरवः पतन्तिशिखरैः सह। तस्य दोर्दण्डवातेन चूर्ण्णाः स्युश्चशिलोच्चयाः। यस्य मौलिजसंधर्धात् वना व्योम त्यज-न्त्यलम्। नीलिमानं न चाद्यापि जहुस्तत्केशसङ्ग-जम्। यस्य निःश्वाससम्भारैरुत्तरङ्गा महाब्धयः। ना-द्याप्यमन्दकल्लोला भवन्ति तिमिभिः सह। योज-नानां सहस्राणि नव यस्य समुच्छ्रयः। तावानेव हिविस्तारस्तनोर्मायाविनोऽस्य हि। यन्नेत्रयोः पिङ्गलिमातथा तरलिमा पुनः। विद्युता नोह्यते ऽद्यापि सोऽयमा-यति सत्वरः। यां यां दिशं समभ्येति सोऽयं दुःसहदानवः। नाद्य शमीभवेदस्य साध्वसादिव दिग्भयम्। ब्रह्मलब्धवरश्चायं तृणीकृतजगत्त्रयः। अबध्योऽहंभवामीति स्त्रीपुंभिः कामनिर्जितैः। ततस्त्रिशूलहेतिस्तमायान्तं दैत्यपुङ्गवम्! विज्ञायाबध्यमन्येन शूले-नाभिजवान तम्। प्रोतस्तेन त्रिशूलेन स च दैत्यःगजासुरः। छत्रीकृतमिवात्मानं मन्यमानो जगौ हरम्। गजासुरौवा च। त्रिशूलपाणे! देवेश! जाने त्वां स्मर-हारिणम्। तव हस्ते मम बधः श्रेयानेव पुरान्तक!। किञ्चिद्विज्ञप्तु मिच्छामि अवधेहि ममेरितम्। सत्यंब्रवीमि नासत्यं मृत्युञ्जय! विचारय। त्वमेको जगती-बन्धो! विश्वस्योपरि संस्थितः। अहं तदुपरिष्टाच्चस्थितोऽस्मीति जितं मया। धन्योऽस्म्यनुगृहीतोऽस्मि-त्वत्त्रिशूलाग्रसंस्थितः। कालेन सर्व्वैर्मर्त्तव्यं श्रेयसेमृत्युरीदृशः। इति तस्य वचः श्रुत्वा देवदेव कृपा-निधिः। प्रोवाच प्रहसन् शम्भुर्वटोद्भव! गजासुरम्। ईश्वर उवाच। गजासुर। प्रसन्नोऽस्मिमहापौरुषशेबधे!। स्वानुकूलं परं ब्रूहि ददामि सुमतेऽसुर!” इत्याकर्ण्ण्य[Page2188-b+ 38] स दैत्येन्द्रः प्रत्युवाच महेश्वरम्। गजासुर उवाच। यदि प्रसन्नोदिग्वासस्तदा नित्यं वसान मे। इमां कृत्तिंविरूपाक्ष! त्वत्रिशूलाग्निपाविताम्। सुप्रमाणां सुख-स्पर्शां रणाङ्गणपणीकृताम्। इष्टगन्धिः सदैवास्तुसदैवास्त्वतिकोमला। सदैव निर्म्मला चास्तु सदैवा-स्त्वतिसङ्गलम्। महातपानलज्वालां प्राप्यापि सुचिरंविभो!। न दुग्धा कृत्तिरेषा मे पुण्यगन्धनिधिस्ततः। यदि पुण्यवती नैषा नम कृत्तिर्दिगम्बर। तदा त्वदङ्गस-ङ्गीऽस्याः कथं जातो रणाङ्गणे। अन्यञ्च मेवरं देहि यदितुष्टोऽसि शङ्कर!। नामास्तु कृत्तिवासास्ते प्रारभ्याद्य-तनं दिनम्” इतऊर्द्ध्वं कीत्तिवासश्वरशब्दे दृश्यम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कृत्तिवासस्¦ m. (-साः) An appellation of MAHADEVA. E. कृत्ति a skin or hide, and वासस् clothes; clothed with a tyger's skin; also कृत्तिवास।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कृत्तिवासस्/ कृत्ति--वासस् m. ( कृत्ति-)" covered with a skin " , N. of रुद्र-शिवVS. iii , 61 MBh. Kum. Ma1lav.
कृत्तिवासस्/ कृत्ति--वासस् f. N. of दुर्गाHariv. 3285.
