कृत्तिवासास्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कृत्तिवासाः, [स्] पुं, (कृत्तिर्गजासुरस्य चर्म्म वासो- ऽस्य ।) शिवः । इत्यमरः । १ । १ । ३३ ॥ (यथा च महादेवस्य चर्म्मवसनत्वं जातं तथा काशीखण्डे ६४ अध्याये वर्णितं यथा, -- “कोलाहलो महानासीत् त्रात त्रातेति सर्व्वतः । महिषासुरपुत्त्रोऽसौ समायाति गजासुरः ॥ प्रमघ्नन् प्रमथान् सर्व्वान् निजबीर्य्यमदोद्धतः । यत्र यत्र धरायां स चरणं प्रमिणोति हि ॥ अचलान् दोलयाञ्चक्रे तत्र तत्रास्य भारतः । उरुवेगेण तरवः पतन्ति शिखरैः सह ॥ तस्य दोर्दण्डवातेन चूर्णाः स्युश्च शिलोच्चयाः । यस्य मौलिजसंघर्षात् घना व्योम त्यजन्त्यलम् ॥ नीलिमानं न चाद्यापि जहुस्तत्केशसङ्गजम् । यस्य निःश्वाससम्भारैरुत्तरङ्ग महाब्धयः ॥ नाद्याप्यमन्दकल्लोला भवन्ति तिमिभिः सह । योजनानां सहस्राणि नव यस्य समुच्छ्रयः ॥ तावानेव हि विस्तारस्तनोर्मायाविनोऽस्य हि । यन्नेत्रयोः पिङ्गलिमा तथा तरलिमा पुनः ॥ विद्युता नोह्यतेऽद्यापि सोऽयमायाति सत्वरः । यां यां दिशं समभ्येति सोयं दुःसहदानवः ॥ नाद्य समीभवेदस्य साध्वसादिव दिग्भयम् । ब्रह्मलव्धवरश्चायं तृणीकृतजगत्त्रयः ॥ अवध्योऽहं भवामीति स्त्रीपुंभिः कामनिर्जितैः । ततस्त्रिशूलहेतिस्तमायान्तं दैत्यपुङ्गवम् ॥ विज्ञायावध्यमन्येन शूलेनाभिजघान तम् । प्रोतस्तेन त्रिशूलेन स च दैत्यो गजासुरः ॥ छत्रीकृतमिवात्मानं मन्यमानो जगौ हरम् ॥ गजासुर उवाच । त्रिशूलपाणे ! देवेश ! जाने त्वां स्मरहारिणम् ॥ तव हस्ते मम वधः श्रेयानेव पुरान्तक ! । किञ्चिद्विज्ञप्तुमिच्छामि अवधेहि ममेरितम् ॥ सत्यं ब्रवीमि नासत्यं मृत्युञ्जय ! विचारय । त्वमेको जगतीबन्धो ! विश्वस्योपरि संस्थितः ॥ अहत्वदुपरिष्टाच्च स्थितोस्मीति जितं मया । धन्योस्म्यनुगृहीतोस्मि त्वत्त्रिशूलाग्रसंस्थितः ॥ कालेन सर्व्वैर्मर्त्तव्यं श्रेयसे मृत्युरीदृशः । इति तस्य वचः श्रुत्वा देवदेवः कृपानिधिः । प्रोवाच प्रहसन् शम्भुर्घटोद्भवगजासुरम् ॥ ईश्वर उवाच । गजासुर ! प्रसन्नोस्मि महापौरुषसेवधे ! । स्वानुकूलं वरं ब्रूहि ददामि सुमते ऽसुर ! ॥ इत्याकर्ण्य स दैत्येन्द्रः प्रत्युवाच महेश्वरम् ॥ गजासुर उवाच । यदि प्रसन्नो दिग्वासस्तदा नित्यं वसान मे । इमां कृत्तिं विरूपाक्ष ! त्वत्त्रिशूलाग्निपाविताम् । सुप्रमाणां सुखस्पर्शां रणाङ्गणपणीकृताम् ॥ इष्टगन्धिः सदैवास्तु सदैवास्त्वतिकोमला । सदैव निर्म्मला चास्तु सदैवास्त्वतिमङ्गलम् ॥ महातपानलज्वालां प्राप्यापि सुचिरं विभो ! । न दग्धा कृत्तिरेषा मे पुण्यगन्धनिधिस्ततः ॥ यदि पुण्यवती नैषा मम कृत्तिर्दिगम्बर ! । तदा त्वदङ्गसङ्गोऽस्याः कथं जातो रणाङ्गने ॥ अन्यञ्च मे वरं देहि यदि तुष्टोऽसि शङ्कर ! । नामास्तु कृत्तिवासास्ते प्रारभ्याद्यतनं दिनम् ॥ इति तस्य वचः श्रुत्वा तथेत्युक्त्वा च शङ्करः । पुनः प्रोवाच तं दैत्यं मक्तिनिर्म्मलमानसम् ॥ ईश्वर उवाच । शृणु पुण्यनिधे ! दैत्य ! वरमन्यं सुदुर्लभम् । अविमुक्ते महाक्षेत्रे रणत्यक्तकलेवर ! ॥ इदं पुण्यशरीरं ते क्षेत्रेऽस्मिन् मुक्तिसाधने । मम लिङ्गं भवत्वत्र सर्वेषां मुक्तिदायकम् ॥ कृत्तिवासेश्वरं नाम महापातकनाशनम् । सर्व्वेषामेव लिङ्गानां शिरोभूतमिदं वरम् ॥ यावन्ति सन्ति लिङ्गानि वारानस्यां महान्त्यपि । उत्तमं तावतामेतदुत्तमाङ्गवदुत्तमम्” ॥ * ॥ यदि चात्र गजासुरचर्म्मणाच्छादकत्वं वर्णितं तथापि कार्य्यावस्थाविशेषेण व्याध्रचर्म्मणाप्यस्य परिधेयकत्वं दृश्यते यथा व्याघ्रकृत्तिं वसानमिति ध्यानादौ स्फुटमेव वस्तुतस्तु नचैतत् वाह्य- चर्म्मादिविषय एव ग्रन्थकारेण भगवता मह- र्षिणा वर्णितः त्रिगुणात्मिका प्रकृतिरेव तस्या- च्छादिका इति आध्यात्मिकी स्वरूपोक्तिः । यथा, “गुणमयी मायैषा वावह तस्य परमस्य आच्छा- दनी” । व्याध्रहस्त्यादेरुक्तिस्तु मायाया वैचित्रप्रदर्श- नायैव । अपि च कटिदेशपर्य्यन्तोक्तिरेकपाद एव मायाच्छादितत्वात् । यथा, श्रुतिः । “पादोऽस्य विश्वाभूतानि त्रिपादोऽस्ति स्वयंप्रभः” ॥)
