सामग्री पर जाएँ

कृत्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कृत्यः, त्रि, (कृ + क्यप् तुगागमश्च ।) विद्विष्टः । इति मेदिनी ॥ धनादिभिर्भेद्यः । इति जटाधरः ॥ प्रत्ययविशेषः । यथा, -- “कृत्याः षट्तेसमाख्याताःक्यप्ण्यतौ भावकर्म्मणोः । तव्यानीयावनन्ताद्यत्केलिमः कर्म्मकर्त्तरि” ॥ इति सुपद्मसम्मता कारिका ॥ कर्त्तरि कर्म्मणि चार्थे विहिताः कृत्या वाच्यलिङ्गाः स्युः । कृत्यास्त- व्यादयः वोपदेवमते “ते ल्याः” “कृद्धोः कभावे” इत्युक्तेः क्वचित् कृत्थाः कर्त्तर्य्यपि स्युः । कर्त्तरि यथा भव्यस्तरुः भव्या लता भव्यं वनम् । कर्म्मणि यथा, ग्रामो गन्तव्यः नगरी गन्तव्या पुरं गन्तव्यम् । कर्त्तरि कर्म्मणि किं स्थातव्यं स्थेयं ब्रह्म- भूयम् ॥ ब्रह्महत्या इह भावे कृत्याः । असं- ज्ञायामित्येव सूर्य्योऽर्कः भिद्योद्ध्यौ नदौ । इत्यमर- टीकायां भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=कृत्यः&oldid=128244" इत्यस्माद् प्रतिप्राप्तम्