कृत्रिमः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कृत्रिमः, पुं, सिह्लकः । (तुरस्कनामगन्धद्रव्यविशेषः ।) इति मेदिनी ॥ (कृ + “ड्वितः क्त्रिः” । कृत्या क्रियया निर्वृत्त इति “त्रेर्मप् नित्यम् ।” इति मप् ।) द्वाद- शविधपुत्त्रान्तर्गतपुत्त्रविशेषः । इति जटाधरः । (एतद्विषयकविववरणन्तु पुत्त्रशब्दे द्रष्टव्यम् ॥)
कृत्रिमः, त्रि, (“ड्वितः क्त्रिः” । ३ । ३ । ८८ । इति क्त्रिः । ततः कृत्या निर्वृत्तः । “त्रेर्मप् नित्यम्” ४ । ४ । २० । इति मप् ।) करणाज्जातः । रचितः । इति मेदिनी ॥ (यथा, रघौ १९ । ३७ । “प्रावृषि प्रमदवर्हिणेष्वभूत् कृत्रिमाद्रिषु विहारविभ्रमः” ॥)
