सामग्री पर जाएँ

कृत्रिमपुत्त्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कृत्रिमपुत्त्रः, पुं, (कृत्रिमश्चासौ पुत्त्रश्चेति ।) द्वादश- पुत्त्रमध्ये पुत्त्रविशेषः । तथा च मनुः । “सदृशन्तु प्रकुर्य्याद्यं गुणदोषविचक्षणम् । पुत्त्रं पुत्त्रगुणैर्युक्तं स विज्ञेयश्च कृत्रिमः” ॥ अस्यार्थः । “यः पुनः समानजातीयं पित्रोःपार- लौकिकश्राद्धादिकरणाकरणाभ्यां गुणदोषौ भवत इत्येवमादिज्ञं पुत्त्रगुणैश्च मातापित्रोराराधनादि- भिर्युक्तं पुत्त्रं कुर्य्यात् स कृत्रिमाख्यः पुत्त्रो बोध्यः” । इति कुल्लूकभट्टः ॥ पुत्तलिका । यथा । कुमारे । १ । २९ । “सा कन्दुकैः कृत्रिमपुत्त्रकैश्च रेमे मुहुमध्यगता सखीनाम्” ॥

"https://sa.wiktionary.org/w/index.php?title=कृत्रिमपुत्त्रः&oldid=128254" इत्यस्माद् प्रतिप्राप्तम्