कृपः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कृपः, पुं, (कृपा अस्त्यस्य पालनसाधनत्वेन । अर्श- आदित्वात् अच् ।) कृपाचार्य्यः । स तु द्रोणाचार्य्य- श्यालकः । इति मेदिनी ॥ तथा चोक्तम् । “गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः । अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः” ॥ इति महाभारतम् ॥ (स तु गोतमवंश्यस्य शरद्वतः पुत्त्रः राज्ञा शान्तनुना कृपया पालितः अतः कृप इति नाम्ना प्रसिद्धः । सोऽसौ यावज्जीवं कौमार- ब्रह्मचर्य्यमालम्ब्य कुरुबालकानामाचार्य्यत्वे भीष्मा- दिभिर्नियोजितः कुरुक्षेत्रयुद्धे दुर्य्योधनपक्षमा- श्रित्य पाण्डवैः सह संग्रामं कृत्वा लोकक्षयकरे तस्मिन् समरे अमरत्वात् न निहतः ॥ अस्य उत्पत्तिविवरणन्तु महाभारते १ । १३० अध्याये द्रष्टव्यम् ॥) व्यासः । इति धरणी । (राजर्षि- विशेषः । यथा, ऋग्वेदे । ८ । ३ । १२ । “शग्धि यथा रुशमं श्यावकं कृपमिन्द्र ! प्रावः स्वर्णरम्” । “रुशमं श्यावकं कृपं च एतन्नामकां- स्त्रीन् राजर्षीन् यथा प्रावः” । इति भाष्यम् ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कृपः [kṛpḥ], The maternal uncle of अश्वत्थामन्. [He was born of the sage Śaradvat by a nymph called Jānapadī, but along with his sister Kṛipī, also born from the nymph, he was brought up by Śantanu. He was proficient in the science of archery. In the great war he sided with the Kauravas, and after all had been slain he was given an asylum by the Pāṇḍavas. He is one of the seven Chirajīvins.] कृपश्च समितिञ्जयः Bg.1.8.
