कृपणः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कृपणः, त्रि, (कल्पते स्वल्पमपि दातुम् । कृप् + बाहुलकात् क्युन् अत एव न लत्वम् ।) अदाता । (यथा, व्यासोक्तौ । “दातारं कृपणं मन्ये मृतोऽप्यर्थं न मुञ्चति” ॥) तत्पर्य्यायः । कदर्य्यः २ किम्पचानः ३ मितम्पचः ४ क्षुद्रः ५ । इत्यमरः । ३ । १ । ४८ ॥ किम्पचः ६ अनमितम्पचः ७ । इति तट्टीका ॥ मन्दः ८ कीकटः ९ कुमुत् १० कीणाशः ११ । इति जटा- धरः ॥ (यथा, पञ्चतन्त्रे । २ । ७५ । “दाता लघुरपि सेव्यो भवति न कृपणो महा- नपि समृद्ध्या । कूपोऽन्तः स्वादुजलः प्रीत्यै लोकस्य न समुद्रः” ॥ दीनः । यथा, हेः रामायणे २ । ३२ । २८ । “ततः स पुरुषव्याघ्रस्तद्धनं सहलक्षणः । द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो हृदापयत्” ॥ पारिभाषिककृपणानाह ॥ महाव्यसनप्राप्तो दीनः । यथा, रामायणे ४ । २१ । १९ । “आदितः कृशवृत्तिर्यः कृपणो न स राघव ! । महात्मा व्यसनं प्राप्तो दीनः कृपण उच्यते” ॥ यो हि अक्षरं ब्रह्म अविज्ञाय लोकान्तरगामी भवति सः । यदुक्तं वृहदारण्यके याज्ञवल्क्यप्रक- रणे । “यो वा एतदक्षरमविदित्वा गार्ग्यस्मा- ल्लोकात् प्रैति स कृपणः” इति ॥ दुहिता हि कृपापात्रत्वात् कृपणम् । यदुक्तं मनौ ४ । १८५ । “भ्राता ज्येष्ठः समः पित्रा भार्य्या पुत्त्रः स्वकातनुः । छाया स्वोदासवर्गश्च दुहिता कृपणं परम्” ॥) कुत्सितः । इति मेदिनी ॥
कृपणः, पुं, कृमिः । इति मेदिनी ॥
