सामग्री पर जाएँ

कृमिजम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कृमिजम्, क्ली, (कृमिभ्यो जायते इति । अन्येभ्योपीति डः ।) अगुरु ॥ इत्यमरः । २ । ६ । १२६ ॥ (कृमि- जातमात्रे, त्रि । यथा, पञ्चतन्त्रे । १ । १०३ । “कौषेयं कृमिजं सुवर्णमुपलाद्दूर्व्वापि गोरोमतः । पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात्” ॥ अस्य पर्य्याया यथा । “अगुरु प्रवरं लोहं राजार्हं योगजन्तथा । वंशिकं कृमिजं वापि कृमिजग्धमनार्य्यकम्” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ गुणाश्चास्यागुरुशब्दे ज्ञातव्याः ॥)

"https://sa.wiktionary.org/w/index.php?title=कृमिजम्&oldid=128307" इत्यस्माद् प्रतिप्राप्तम्