सामग्री पर जाएँ

कृशः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कृशः, त्रि, (कृशधातोः क्तप्रत्यये “अनुपसर्गात् फुल्लक्षीवेति” । ८ । २ । ५५ । निपातनात् साधुः ।) अल्पः । (यथा, मनौ । ४ । १८४ । “आकाशेशाश्च विज्ञेया बालवृद्धकृशातुराः” ॥) सूक्ष्मः । इत्यमरः । ३ । १ । ६१ ॥ (यथा, आर्य्यासप्तशती । ४९५ । “राजसि कृशाङ्गि ! मङ्गलकलसी सहकारपल्ल- वेनेव । तेनैव चूम्बितमुखी प्रथमाविर्भूतरागेण” ॥ “व्यायाममतिसौहित्यं क्षुत्पिपासामथौषधम् । कृशो न सहते तद्वदतिशीतोष्णमैथुनम् ॥ प्लीहा कासः क्षयः श्वासो गुल्मार्शांस्युदराणि च । कृशं प्रायोऽभिधावन्ति, रोगाश्च ग्रहणीमताः” ॥ “सततं व्याधितावेतावतिस्थूलकृशौ नरौ । सततञ्चोपचय्यौ हि कर्षणैर्वृंहणैरपि” ॥ “स्थौल्यकार्श्ये वरं कार्श्यं समोपकरणौ हितौ । यद्युभौ व्याधिरागच्छेत् स्थूलमेवाति पीडयेत्” ॥ इति चरके सूत्रस्थाने २१ अध्याये ॥ “कश्चिदन्यः कृशोऽतीव बलवान् दृश्यते तदा” ॥ तत्र हेतुमाह । “आधानसमये यस्य शुकभागोऽधिको भवेत् । मेदोभागस्तु हीनः स्यात् स कृशोऽपि महाबलः” ॥ यस्याधानसमये जनयितुः शुक्रस्याधिक्यं भवति । मेदसोऽल्पता तस्य कृशस्यापि बहु बलमित्यर्थः ॥ अथ कार्श्यस्य चिकित्सा । “रूक्षान्नादि निमित्ते तु कृशे युञ्जीत भेषजम् । वृंहणं बलकृद्वृष्यं तथा वाजीकरञ्च यत् ॥ पीताश्वगन्धा पयसार्द्धमासं घृतेन तैलेन सुखाम्बुना वा । कृशस्य पुष्टिं वपुषो विधत्ते बालस्य शस्यस्य यथाम्बुवृष्टी ॥ अश्वगन्धस्य कल्केन क्वाथे तस्मिन् पयस्यपि । सिद्धं तैलं कृशाङ्गानामभ्यङ्गादङ्गपुष्टिदम्” ॥ इति अश्वगन्धातैलम् ॥ * ॥ इति भावप्रकाशस्य मध्यखण्डे तृतीयभागे कार्श्या- धिकारे ॥) (अक्षमः । यथा, मनौ । ४ । १३५ । “क्षत्त्रियञ्चैव सर्पञ्च ब्राह्मणं वा बहुश्रुतम् । नावमन्येत वै भूष्णुः कृशानपि कदाचन” ॥ पुं, सर्व्वाकारवत्त्वात् विष्णुः । यथा, महाभारते । १३ । १४९ । १०३ । “अणुर्वृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान्” ॥ स्वनामख्यातो मुनिपुत्त्रः । स तु परीक्षिच्छाप- प्रदातुः शृङ्गिणः सखा । यथा, महाभारते । १ । ४१ । २ । “स तं कृशमभिप्रेक्ष्य सूनृतां वाचमुत्सृजन् । अपृच्छत्तं कथं तातः स मेऽद्य मृतधारकः” ॥ ऐरावतकुलोत्पन्नो नागविशेषः । यथा, तत्रैव । १ । आस्तीकपर्व्वणि । ५७ । ११ । “पारावतः पारिजातः पाण्डरो हरिणः कृशः । ऐरावतकुलादेते प्रविष्टा हव्यवाहनम्” ॥)

"https://sa.wiktionary.org/w/index.php?title=कृशः&oldid=128328" इत्यस्माद् प्रतिप्राप्तम्