कृशरा
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कृशरा, स्त्री, (कृशर + टाप् ।) तिलौदनम् । इति हारावली ॥ द्विदलमिश्रितान्नम् । खिचडी इति भाषा । यथा, -- “तण्डुला दालिसंमिश्रा लवणार्द्रकहिङ्गुभिः । संयुक्ताः सलिलैः सिद्धाः कृशराः कथिता बुधैः” ॥ अस्या गुणाः । शुक्रबलकारित्वम् । गुरुत्वम् । पित्तकफप्रदत्वम् । दुर्जरत्वम् । विष्टम्भमलमूत्र- कारित्वञ्च । इति भावप्रकाशः ॥ (“मांसेक्षुपिष्टकृशरा तिलशस्कुलीभिः” । इति माधवकरीयरोगविनिश्चयस्य कफशूलव्या- ख्यानेविजयेनोक्तं यथा, -- “कृशरा तिलतण्डुलमाषयवागूः” ॥)
