कृषि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृषिः, स्त्री, (कृष् विलेखने । “सर्व्वधातुभ्य इन्” । उणां ४ । ११७ । इति इन् । “इगुपधात् कित्” । उणां । ४ । ११९ । इति कित् ।) वैश्यवृत्ति- विशेषः । कर्षणम् । चास इति भाषा । तत्प- र्य्यायः । अनृतम् २ । इत्यमरः । २ । ९ । २ । प्रनृतम् ३ । इति जटाधरः ॥ (यथा, मेघदूते । १६ । “त्वय्यायत्तं कृषिफलमिति भ्रूविकारानभिज्ञैः प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृषि स्त्री।

जीवनोपायमार्गः

समानार्थक:कृषि,पाशुपाल्य,वाणिज्य

2।9।2।1।1

स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः। सेवा श्ववृत्तिरनृतं कृषिरुञ्छशिलं त्वृतम्.।

पदार्थ-विभागः : वृत्तिः

कृषि स्त्री।

कर्षणम्

समानार्थक:अनृत,कृषि

2।9।2।2।4

स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः। सेवा श्ववृत्तिरनृतं कृषिरुञ्छशिलं त्वृतम्.।

वृत्तिवान् : कृषीवलः

वैशिष्ट्य : कृष्टक्षेत्रम्

पदार्थ-विभागः : वृत्तिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृषि¦ स्त्री कृष--इक्। शस्योत्पादतार्थं भूमिकर्षणरूपेवैश्यवृत्ति-भेदे अमरः कृषिकम्म प्रकारादि कृषिपराशरे दर्शितं यथा{??}त्रादौ कृषिप्रशंसा
“चतुर्व्वेदालयो ब्रह्मा व्रवीतिकृषणं वचः। अलक्ष्म्या युज्यते सोऽपि प्रार्थमालाय-वान्वितः। एकयैव पुनः कृष्या प्रार्थको नैव जायते। कृष्यान्वितो हि लोकेऽस्मिन् भूयादेकश्च भूपतिः। सुवर्णरौप्यमाणिक्यवसनैरपि पूरिताः। तथाप प्रार्थ-यन्त्येव कृषकान् भक्ततृष्णया। कण्ठे हस्ते च कर्ण्णो चसुवर्णं यदि विद्यते। उपवासस्तथापि स्यादन्नाभावेनदेहिनाम्। अन्नं प्राणा बलञ्चान्नभन्नं सर्व्वार्थसाध-कम्। देवासुरमनुष्याश्च सर्व्वे चान्नोपजीविनः। अ-न्नन्तु धान्यसम्भूतं धान्यं कृष्या विना न च। तस्मात्सर्वं--परित्यज्य कृषिं यत्नेन कारयेत्। कृषिर्धन्या कृषि-र्म्मोध्या जन्तूनां जीवनं कृषिः। हिंसादिदोषयुक्तोऽपिमुच्यतेऽतिथिपूजनात्। तेवार्च्चितं जगत् सर्व्वमतिथिर्येत पूजिनः। अर्च्चिता{??}तेन देवाश्च सएव पुरुषोत्तमः”। अथ कृषेः स्वयमवेक्ष्यतोक्तिः
“फलत्थवेक्षिता स्वर्णं, दैन्यं सैवा-नवेक्षिता। कृषिः कृषिपुराणज्ञ इत्युवाच पराशरः”। अथ चान्ये मुनयआहुः
“पितुरन्तःपुरं दद्यान्मातुर्दद्या-न्महानसम्। गोषु चात्मसमं दव्यात् स्वयमेव कृषिंव्रजेत्। कृषिर्गावो वाणविद्याः स्त्रियो राजकुलानिच। क्षणेनेवावसोदत्ति मुहूर्तमनवेक्षणात्। समर्थैयकृषिः कार्य्या लीकामां हितकाम्यया असमर्थो हि[Page2197-b+ 38] कृषको मिक्षामटति नोचयत्। गोहितः क्षेत्रगामीच कालज्ञो वीजतत्परः। वितन्द्रः सर्व्वशस्याट्यः षककोनावसीदति”। अथ वाहपोषणादिप्रकारः।
“कृषिञ्च तादृशीं कुर्य्यात् यथावाहान्न पीडयेत्। वाहपीडार्जितं शस्यं गर्हितंसर्वकर्म्मसु। वाहपीडार्जितं शस्यं फलितञ्च चतु-र्गुणम्। वाहनिश्वासविफलः कृषको निः स्वतांव्रजेत्। गुण्डकैर्यवसैर्धूमै स्तधान्यैरपि पोषणैः। वाहाःक्वचिन्न सीदन्ति सायं प्रातश्च चारणात्”। अथ गोशालाविधानम्।
“गोशाला सुदृढा यस्य शुचिर्गो-मयवर्जिता। तस्य वाहा विवर्द्धन्ते पोषणैरपि व-र्जिताः। शकृन्मूत्रविलिप्ताङ्गा वाहा यत्र दिते दिने। निःसरन्ति गवां स्थानात् तत्र किं पोषणादिभिः। पञ्चपञ्चायता शाला गवां वृद्धिकरी मता। सिंहस्यानेकृता सैव गोनाशं कुरुते ध्रुवम्। सिंहगेहेऽर्षितां चैवगोशालां कुरुते यदि। प्रमादान्मन्दबुद्धित्वात् गवांनाशोभवेत्तदा। तण्डुलानां जलञ्चैव तप्तमण्डं झषो-दकम्। कार्पासास्थितुषञ्चैव गोस्थाने गोविनाशकृत्। सम्मार्ज्जनीञ्च मुसलमुच्छिष्टं गोनिकेतने। कृत्वा गो-नाशमाप्नोति तथा तत्राजबन्धने। गोमूत्रजालकेनैवतत्रावस्करभोचनम्। कुर्व्वन्ति गृहमेधिभ्यस्तत्र कावाहवासना। विलब्धिं गोमयस्यापि रविभौमशने-र्द्दिने। न कारयेत् भ्रमेणापि गोवृद्धिं यदि वाञ्छ-ति। वारत्रयं परित्यज्य दद्यादन्येषु गोमयम्। विल-भ्य शनिभौमेषु गवां हानिकरः स्मृतः। श्लेष्ममूत्रम्-रीषाणि पङ्कानि च रजांसि च। न पतन्ति गवां यत्रतत्र लक्ष्मीः स्थिरा भवेत्। सन्ध्याकाले च गोस्थानेदीपो यत्र न दीयते। स्थानं तत् कमलाहीनं वीक्ष्यक्रन्दन्ति गोगणाः। हलमष्टगवं धर्म्म्यं षड्गवं व्यव-सायिनाम्। चतुर्गवं नृशंसानां द्विगवञ्च गवाशिनाम्। नित्यं दशहले लक्ष्मीर्नित्यं पञ्चहले धनम्। नित्यञ्चत्रिहले भक्तं नित्यमेकहले ऋणम्। आत्मपोषणमात्रन्तुद्विहलेन च सर्व्वदा। पितुदेवातिथीनाञ्च पुष्ट्यर्थं सोऽक्षभो भवेत्। अथ गोपर्वकथनम्
“गोपूजां कार्त्तिके कुर्य्यात् लगुडपतिपत्तिथौ। बद्ध्वा श्यामलतां स्कन्धे लित्वा तैलहरिद्रया। कुङ्कुमैश्चन्दनैश्चापि कृत्या चाङ्गे विलेपनम्।{??}द्यस्वलमुडं हस्ते गोपालाः कृतभूषणाः। ततो वाद्यैच[Page2198-a+ 38] नृत्यैश्च मण्डयित्वाऽम्बरादिभिः। भ्रामयेषुर्वृषं मुख्यं ग्रामेगोविन्नशान्तये। गवामङ्गे तदा दद्यात् कार्त्तिकप्रथमेदिने। तैलं हरिद्रया युक्तं मिलित्वा कुङ्कुमैः सह। तसलोहादिकं तत्र गवामङ्गे प्रदापयेत्। छेदनञ्च प्रकु-र्व्वीत लाङ्गूले कचकर्णयोः। सर्वा गोजातयः सुस्था भवन्त्ये-तेन तद्गृहे। नानाव्याधिनिर्म्मुक्ता वर्षमेकं न संशयः”। अथ गवां यात्राप्रवेशकालादि। पूर्वात्रयं धनिष्ठाच इन्द्राग्नि-सौम्यवारुणाः। एते शुभप्रदा नित्यं गवां यात्राप्रवेश-योः। उत्तरात्रयरोहिण्यां शिनीवाली चतुर्द्दशी। पु-ष्यश्रवणहस्तेषु चित्रायामष्टमीषु च। गवां यात्रां न कु-र्वीत प्रस्थानं वा प्रवेशनम्। पशवस्तस्य नश्यन्ति ये चा-न्ये तृणचारिणः। अर्कार्किकुजवारेषु नवां यात्राप्रवेश-योः। गमने गोविनाशः स्यात् प्रवेशे गृहिणो बधः”। अथ गोमयकूटोद्धारः
“माघे गोमयकूटन्तु संपूज्य श्रद्धया-न्वितः। सारं शुभदिनं प्राप्य कुद्दालैस्तीलयेत्ततः। रौद्रे संशोष्य तत् सर्वं कृत्वा गुण्डकरूपिणम्। फाल्-गुने प्रतिकेदारे गर्त्तं कृत्वा निधापयेत्। ततो वपनका-ले तु कुर्य्यात् सारविमोचनम्। विना सारेण यद्धान्यंवर्द्धते न फलत्यपि”। अथ हलसामग्रीकथनम्
“ईशा युगो हलस्थाणुर्णिर्योलस्तस्य पाशिका। अड्डचल्लश्च शौलश्च पच्चनी च हला-ष्टकम्। पञ्चहस्ता भवेदीशा स्थाणुः पञ्चवितस्तिकः। सार्द्वहस्तस्तु निर्योलो युगः कर्णसमानकः। निर्योलपा-शिका चैव अड्डचल्लस्तथैव च। द्वादशाङ्गुलमानो हिशौलोऽरत्निप्रमाणकः। सार्द्धद्वादशमुष्टिर्वा कार्य्या वानवमुष्टिका। हढा पच्चनिका ज्ञेया लौहाग्रा वंशसम्भ-वा। आबन्धो मण्डलाकारः स्मृत पञ्चदशाङ्गुलः। योक्त्रं हस्तचतुष्कञ्च रज्जुः पञ्चकरात्मिका। पञ्चाङ्गु-लाविको हस्तो हस्तो वा फालकः स्मृतः। अर्कस्य प-त्रसटशी पाशिका च नवाङ्गुला। एकविंशतिशल्यस्तुविद्धकः परिकीर्त्तितः। नवहस्ता तु मदिका(मै)प्रशस्ताकृषिकर्म्मसु। इयं हि हलसामग्री पराशरमुनेर्म्मता। सुदृढा कर्षकैः कार्य्या शुभदा कृषिकर्म्मणि। अडढायुज्यमाना सा सामग्री वाहनस्य च। विघ्नं पदे पदेकुर्य्यात् कर्षकाले न संशयः”। अथ हलप्रसारणकालादि
“अनिलोत्तररोहिण्यां मृगमूलपु-नर्वसौ। पुष्यश्रवणहस्तेषु कुर्य्याद्वलिपसारणम्। हल-प्रसारणं कार्य्यं कर्षकैः शस्यवृद्धये। शुक्रेन्दुजीववा-[Page2198-b+ 38] रेषु शशिजस्य विशेषतः। भौमार्कदिससे चैव तथैवशनिवासरे। कृषिकर्म्मसमारम्भो राज्योपद्रवमादिशेत्। दशम्येकादशी चैव द्वितीया पञ्चमी तथा। त्रयोदशीतृतीया च सप्तमी च शुभावहा। शस्यक्षयः प्रतिपदिद्वादश्यां बधबन्धनम्। बहुविघ्नकरी षष्ठी कुहूः कृषक-नाशिनी। हन्त्यष्टमी बलीवर्द्दात् नवमी शस्यघातिनी। चतुर्थी कीटजननी सर्वं हन्ति चतुर्द्दशी। वृषे मीने चकन्यायां युग्मे धनुषि वृश्चिके। एतेषु शुभलग्नेषु कु-र्य्याद्वलप्रसारणम्। मेषलग्ने पशुं हन्यात् कर्कटे ज-लजात् भयम्। सिंहे चौरभयञ्चैव कुम्भे सर्पभयंतथा। मकरे शस्यनाशः स्यात् तुलायां प्राणसंशयः। तस्माल्लग्नं प्रयत्नेन कृष्यारम्भे विचारयेत्। शुभेऽर्केचन्द्रसंयुक्ते शुक्लयुग्मेन वाससा। शुक्लपुष्पैश्च गन्धैश्चपूजयित्वा यथाविधि। पृथिवीं हलसंयुक्तां पृथुञ्चैवप्रजापतिम्। अग्नेः प्रदक्षिणं कृत्वा भूरि दत्त्वा चदक्षिणाम्। फालाग्रं स्वर्णसंयुक्तं कृत्वा च मधुलेपनम्। अहेः क्रोडे वामपार्श्वे कुर्य्याद्वलप्रसारणम्। स्मर्त्तव्योवासवो व्यासः पृथूरामः पराशरः। सम्पूज्याग्नं द्विजंदेवं कुर्य्याद्वलिप्रसारणम्। कृष्णौ वृषौ हले श्लाघ्यौ रक्तौवा कृष्णलोहितौ। मुखपार्श्वौ तयोःस्नाप्यौ नवन्या चघृतेन च। उत्तराभिमुखो भूत्वा इन्द्रायार्घ्यं निवेद-येत्। शुक्लपुष्पसमायुक्तं दधिक्षीरसमन्वितम्। सुवृष्टिंकुरु देवेश! गृहाणार्य्यं शचीपते!। निविष्टो विष्टरेभक्तः सस्थाप्य जानुनी क्षितौ। प्रणमेद्वासवं देवं म-न्त्रेणानेन कर्षकः। वृषो महाकटिर्वर्ज्यश्छिन्नला-ङ्गूलकर्णकः। सर्वशुक्लस्तथा वर्ज्यः कृषकैर्हलकर्म्मणि। हलप्रसारणं कार्य्यं नीरुगभिर्वृषकर्षकैः। छिग्नरेखा नकर्त्तव्या यथा प्राह पराशरः। एका तिस्रस्तथा पञ्चहलरेखाः प्रकीर्त्तिताः। एका जयकरी रेखा तृतीयाचार्थसिद्धिदा। पञ्चमाख्या त या रेखा बहुशस्यप्रदा-यिनी। हलप्रबाहकाले तु कूर्म्ममुत्पाटयेद्घदि। गृहि-णी म्रियते तस्य तथा चाग्निभयं भवेत्। फालोत्पाटे चमङ्गे च देशत्यागो भवेद्ध्रुवम्। लाङ्गलो भिद्यते वापिप्रभुस्तस्य विनश्यति। ईशाभङ्गोभवेद्वापि कृषको जीव-नाक्षमः। भ्रातृनाशो युगे भग्ने शौले च म्रियते वृषः। योक्त्रच्छेदे च रोगः स्यात् शस्यहानिश्च जायते। निपातेकर्षकस्यापि कष्टं स्यात् राजमन्दिरे। हलप्रबाहकालेतु गौरेकः प्रपतेद्वदि। ज्वरातिसाररोगेण मानुषो[Page2199-a+ 38] म्रियते तदा। हले प्रवहमाने तु वृषो धावन् यदि व्र-जेत्। कृषिभङ्गो भवेत्तस्य पीडा चापि शरीरजा। हलप्रवाहमात्रन्तु गौरेको नर्द्दते यदि। नासालीढंप्रकुर्वीत तदा शस्यं चतुर्गुणम्। प्रवाहान्मुक्तमात्रन्तुगौरेकः स्वनते यदि। अन्यस्य लेहनं कुर्य्यात् तदा शस्यंचतुर्गुणम्। हले प्रवहमाने तु शकन्मूत्रं यदा स्रवेत्। शस्यवृवृइः शकृत्पाते मूत्रे वन्या प्रजायते। हलप्रसारणंयेन न कृतं मृगकुम्भयोः। कुतस्तस्य कृषाणस्य फलाशाकृषिकर्म्मणि। हलप्रसारणं नैवं कृत्वा यः कर्षणं च-रेत्। केबलं बलदर्पेण स करोति कृषिं वृथा। मृत्सुवर्णसमा माघे कुम्भे रजतसन्निभा। चेत्रे ताम्रसमाख्याता धान्यतुल्या च माधवे। ज्यैष्ठे मृदेव विज्ञेयाआषाढे कर्द्दमाह्वया। निष्फला कर्कटे चैव हलैरुत्पा-टिता तु या”। तथाच पराशरः।
“हेमन्ते कृष्यते हेम। वसन्ते ताम्ररौप्यकम्। धान्यं निदाघकाले तु दारिद्र्यन्तुघनागमे”। अथ वीजस्थापनविधिः
“माघे वा फाल्गुने वापि सर्ववीजस्यसङ्ग्रहः। शोषयेदातपे सम्यक् नीहारे विनिधापयेत्। वीजस्य पुटिकां कृत्वा निधानं तत्र शोधयेत्। वीजंनिधानसंमिश्रं फलहानिकरं परम्। एकरूपन्तु य-द्वीजं फलं फलति निर्भरम्। एकरूप प्रयत्नेन तस्माद्वीजंसमाहरेत्। सुदृढं पुटकं बद्धा तृणं छिन्द्यात् विनि-गतम्। अच्छिन्नतृणक ह्यस्मिन् कृषिः स्यात्तृणपूरिता। न वल्मीके न गोस्थाने न प्रसूतानिकेतने। न च बन्ध्या-वति गेहे वीजस्थापनमाचरेत्। नोच्छिष्टः संस्पृशेद्वीजंन च नारी रजस्वला। न बन्ध्या गुर्विणी चैव न च सद्यः-प्रसूतिका। घृतं तैलञ्च तक्रञ्च प्रदीपं लवणं तथा। वीजोपरि भ्रमेणापि कृषको नैव कारयेत्”। तथाचगार्ग्यः
“दीपाग्निधूपसंसृष्टं वृष्ट्या चोपहतञ्च यत्। वर्जनीयं सदा वीज यद्गर्त्तेषु पिधापितम्। प्रोथितंवीजसंमिश्रं भ्रान्त्या न निवपेत् क्वचित्। निधानंगुण्डसंमिश्रं तद्वीजं बन्ध्यतां व्रजेत्। कृषाणसारकेदारवृषलाङ्गलकादयः। सर्वे ते बन्ध्यतां यान्ति वीजेबन्ध्यत्वमागते। तिलधान्ययवादीनां विधिरेष प्रकी-र्त्तितः। वीजेयत्नमतः कुर्य्यात् वीजमूलाः फलादयः”। अथ वीजवपनविधिः
“वैशाखे वपनं श्रेष्ठं ज्यैष्ठे तु मध्यमंस्मृतम्। आषाढे चाधमं प्राहुः श्रावणे चाध-माधमम्। रोपणार्थन्तु वीजानां शुचौ वपनमु-[Page2199-b+ 38] त्तमम्। श्रावणे चाधमं प्रोक्तं भाद्रे चैवाधमाध-मम्। उत्तरात्रयमूलेन्द्रमैत्रपैत्रेन्दुधातृषु। हस्तायामथ रेवत्यां वीजवापनमुत्तमम्। विष्णुपूर्वविशाखासु यमरौद्रानिलाहिषु। वीजानां वपनं कृत्वावीजं प्राप्नोति मानवः। वपने रोपणे चैव वार-युग्मं विवर्जयेत्। मूषिकाणां भयं भौमे मन्देशलभकीटयोः। न वापयेत्तिथौ रिक्ते क्षीणे सोमेविशेषतः। एवं सम्यक् प्रयुञ्जानः शस्यवृद्धिमवाप्नुयात्। ज्यैष्ठान्ते त्रिदिनं सार्द्धमाषाढादौ तथैव च। वपनंसर्वशस्यानां फलार्थी कृषकस्त्यजेत्”। तथाच वराहः
“वृषान्ते मिथुनादौ च त्रीण्यहानि रजस्वला। वीजंन वापयेत्तत्र जनः पापाद्विनश्यति। मृगशिरसिनिवृत्ते रौद्रपादऽम्बुवाची भवति ऋतुमती क्ष्मा भास्करेत्रीण्यहानि। यदि वपति कृषाणः क्षेत्रमासाद्य वीजं नभवति फललाभो दारुणश्चात्र कालः। हिमेन वारिणासिक्तं वीजं शान्तमनाः शुचिः। इन्द्रं चित्ते स-माधाय स्वयं मुष्टित्रयं वपेत्। कृत्वा धान्यस्यपुण्याह कृषका हृष्टमानसाः। प्राङ्मुखाः कलसंकृत्वा पठेयुर्म्मन्त्रमुत्तमम्। ओं वसुधे! हेमगर्भासि ब-हुशस्यफलप्रदे!। वसुपूज्ये! नमस्तुभ्यं वसुपूर्णास्तु मेकृषिः। रोपयिष्यामि धान्यानां वृक्षवीजानि प्रावृषि। सुस्था भवन्तु कृषका धनधान्यसमृद्धिभिः। वासवोनित्यवर्षी स्यान्नित्यवर्षास्तु तोयदाः। शस्यसम्पत्तयःसर्वाः सफलाः सन्तु नीरुजः। इति प्रणम्य व-सुधां कृषकान् घृतपायसैः। भोजयित्वा गृही भूरिनिर्विघ्नां कुरुते कृषिम”। अथ मदिकादानम्।
“वीजस्य वपनं कृत्वा मदिकां तत्रदापयेत्। विना मदि(मै)प्रदानेन सस्यजन्म न जायते”। अथ धान्यरोपणविधिः
“वपन रोपणञ्चैव वीजं स्यादुभ-यात्मकम्। वपनं गदनिर्म्मुक्तं रोपणं सगदंविदुः। न वृक्षरूपधान्यानां वीजाकर्षणमाचरेत्। न फलन्ति दृढवीजा वृक्षाः केदारसंस्थिताः। हस्तान्तरं कर्कटे च सिंहे हस्तार्द्धमेव च। रोषणंसवधान्यानां कन्यायां चतुरङ्गुलम्”। अथ धान्यकट्टनम्
“आषाढे श्रावणे चैव धान्यमाकट्टये-द्बुधः। अनाकृष्टन्तु यद्धान्यं यथा वीजं तथैव हि। भाद्रेच कट्टयेद्धान्यमवृष्टौ कृषितत्परः। भाद्रे चार्द्ध-फलप्राप्तिः फलाशा नैव चाश्विने। न बिलभूमौ धा-[Page2200-a+ 38] न्यानां कुर्य्यात् कट्टनरोपणे। न च सारप्रदानन्तु तृण-मात्रन्तु शोधयेत्”। अथ धान्यनिस्तृणीकरणम्
“निष्पन्नमपि यद्धान्यमकृत्वातृणवर्जितम्। न सम्यक् फलमाप्तोति तृणक्षीणकृषिर्भवेत्। कुलीरभाद्रयोर्म्मध्ये यद्धान्यं निस्तृणंभवेत्। तृणैरपि तु सम्पूर्णं तद्धान्यं द्विगुणं भवेत्। द्विवारमाश्विने मासि कृत्वा धान्यन्तु निस्तृणम्। अथ पाकविकीनं हि धान्यं फलति माषवत्। तस्मात् सर्व्वप्रयत्रेन निस्तृणां कारयेत् कृषिम्। निस्तृ-णा हि कृषाणानां कृषिः कामदुघा भवेत्”। अथ भाद्रे जलमीचनम्
“नैरुत्यार्थं हि धान्यानां जलंभाद्रे विमोचयेत्। मूलमात्रन्तु संस्थाप्य कारयेज्जजमो-क्षणम्। भाद्रे च जलसम्पूर्णं धान्यं विविधबाधकैः। प्रपीडितं कृषाणानां न धत्ते फलमुत्तमम्”। अथ धान्यव्याधिखण्डनमन्त्रः
“ओं सिद्धिः, गुरुपादेभ्योनमः। स्वस्ति, हिमगिरिशिखरात् शङ्खकुन्देन्दुधबल-शिखरतटात् नन्दनवनसङ्काशात् परमेश्वरपरमभट्टारकमहाराजाधिराजश्रीमद्रामभद्रपादा विजयिनं समुद्रत-टावस्थितनानादेशागतवानरकोटिलक्षाग्रगण्यं खरतर-नखरातितीक्ष्णहस्तमूर्द्धलाङ्गूलं लीलागमनसमुद्धूतवा-तवेगाबधूतपर्व्वतशतं परचक्रप्रमथनं पवनसुतं श्रीहनूम-न्तमाज्ञापवन्ति असुकग्रामे अमुकगोत्रस्य श्रीमतोऽनुकस्यअखण्डक्षेत्रे राता भोम्मा उदा गान्धिया भोम्भी गान्धीद्रोढी पाण्डरमुखी महिषामुण्डी धूलिशृङ्गा मण्डूकाइत्यादयः तालजङ्घाः चटकशुकशूकरमृगमहिषमूषिकव-राहपतङ्गादयः सर्व्वे शस्योपपातिनो यदि त्वदीयवचनेनून त्यजन्ति तदा तान् वज्रलाङ्गूलेन ताडयिष्यसीति। ओं आं श्रीं ष्रीं नमः”। मतान्तरे धान्यव्याघिखण्डनमन्त्रः
“ओं सिद्धिः, गुरुपादेभ्योनमः। श्रीरामचन्द्रचरणेभ्यो नमः। स्वस्ति, हिम-गिरिशिखरात् शङ्खकुन्देन्दुधबलशिलातटात् नन्दनवन-सङ्काशात् परमेश्वरपरमभट्टारकमहाराजाविराजश्री-मद्रामभद्रपादाः कुशलिनः समुद्रतटावस्थितनानादेशाग-तवानरकोटिलक्षाग्रगण्यं खरतरनखरातितीक्ष्णहस्तमू-र्द्ध्वलाङ्गूलं लीलागमनसमुद्धूतवातवेगाबधूतपर्वतशतं पर-चक्रप्रमथनं पवनसुतं श्रीमन्त” हनूमन्तमाज्ञापन्त्वदः,अमुकग्रामे अमुकगोत्रस्य श्री अमुकस्य अखण्डक्षेत्रेभोम्भा--भोम्भी--पाण्डरमुखी--गान्धी--धूलिशृङ्ग्यादिराग-[Page2200-b+ 38] च्छलेन त्रिपुटी नाम राक्षसी सप्त पुत्रानादाय विविधविघ्नंसमाचरन्त्यवतिष्ठते, इदं मदीयशासनलिखनमवगम्य तांपापराक्षसीं सपुत्रबान्धवां वज्रदण्डाधिकलाङ्गूलदण्डैःखरतरनखरैश्च विदार्य्य दक्षिणसमुद्रे लवणाम्बुधौखण्डशः प्रणिवेहि, यद्यत्र त्वया क्षणमपि विलम्ब्यतेतर्हि त्वं केशरिणा पित्रा पवनेन मात्रा चाञ्जनयाशप्तव्योऽसीत्यन्यथा नाहं प्रभुर्न त्वं भृक्ष इति ओंघ्रां घ्रीं घ्रः”। इमं मन्त्रं विल्वकण्टकेन केतकीदले लिखित्वा मुक्तकेशेना-दित्यवारे क्षेमस्यैशान्यां शस्यमध्ये मञ्जरीषु बन्धयेत्। पाटान्तरञ्च लिखित्वाऽलक्तकेनैतन्मन्त्रं शस्येषु बन्धयेत्। न व्याधिकीटहिंस्राणां भयं तत्र भवेत् कचित्”। अथ जलरक्षणम्। आश्विने कार्त्तिके चैव धान्यस्य जलर-क्षणम्। न कृतं येन मूर्खेण तस्य का शस्यवासना। यथा कुलार्यी कुरुते कुलस्त्रीपरिरक्षणम्। तथा संर-क्षयेत् वारि शरत्काले समागते। अथ कार्त्तिकसंक्रान्त्यां नलरोपणम्
“घटप्रवेशसंक्रान्त्यां रोप-येत्तु नलं तथा। केदारैशानकोणे च सपत्रं कृषकःशुचिः। गन्धैः पुष्पैश्च धूपैश्च शुक्लवस्त्रैर्विशेषतः। पूजयित्वा नलं तत्र पूजयेद्धान्यवृक्षकान्। दविभक्तञ्चनैवेद्यं पायसञ्च विशेषतः। ततो दद्यात् प्रयत्नेन ताला-ष्टिशस्यमेव च”। तत्र मन्त्रः।
“बालकास्तरुणा वृद्धाःसन्ति ये धान्यवृक्षकाः। ज्येष्ठाश्चापि कनिष्ठा वा सगदानिर्गदाश्च ये। आज्ञया भीमसेनस्य रामस्य च पृथोपरि। ताडिता नलदण्डेन सर्व्वे स्युः समपुष्पिताः। समपुष्पत्वमासाद्य फलन्त्राशु च निर्भरम्। सुस्था भवन्तुकृषका धनधान्यसमन्विताः। रोपयित्वा नलं क्षेत्रे म-न्त्रेणानेन च क्रमात्। धान्यवृद्धिं परां प्राप्य नन्दन्तिकृषका जनाः। नलन्तु घटसंक्रान्त्यां क्षेत्रे नारोपयन्तिये। विपमा बन्ध्यपुष्पाश्च तेषां स्त्रुर्धान्यजातयः”। अथ मार्गे मुष्टिग्रहणम्।
“ततो मार्गे तु सम्प्रासे केदारेशुभवासरे। धान्यस्य लवनं कुर्य्यात् सार्द्धमुष्टिद्वयं शुचिः। गन्धैः पुप्यैश्च धूपैश्च नैवेदौर्धान्यवृक्षकान्। पूजयित्वा यथा-न्यायमीशाने लवनं चरेत्। ततस्तन्मस्तके कृत्वा सम्मुखंशीर्षकान्वितम्। न स्पृष्ट्वा कमपि क्वापि व्रजेन्मौनेनमन्दिरम्। सप्तपद्यां ततः पादं दत्त्वा मुख्यनिकेतने। प्रविश्य स्थापयेत्तत्तु पुष्पगन्धादिपूजितम्। न मुष्टिग्र-हणं कुर्य्यात् कदाचिद्धटपौषयोः। श्रेष्ठो मुष्टिग्रहो[Page2201-a+ 38] मार्गे धनघान्यफलप्रदः। सार्द्धं मुष्टिद्वयं मार्गे योऽ-च्छित्त्वा लवनञ्चरेत्। पदे पदे विफलता तस्य धान्यंकुतो गृहे। रौद्रे मघे तथा सौम्ये पुष्ये हस्तानि-लोत्तरे। धान्यच्छेदं प्रशंसन्ति मूलश्रवणयोरपि। व्यतीपाते च भद्रायां रिक्तायां वैधृतौ तथा। भौमार्कि-बुधवारेषु मुष्टिसंग्रहणं त्यजेत्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृषि¦ f. (-षिः)
1. Husbandry, agriculture.
2. Ploughing, cultivating the soil, &c. E. कृष् to plough, इक् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृषिः [kṛṣiḥ], f. [कृष्-इक्; cf. P.III.3.18 Vārt.8]

Ploughing.

Agriculture, husbandry; चीयते बालिशस्यापि सत्क्षेत्रपतिता कृषिः Mu.1.3; कृषिः क्लिष्टा$वृष्ट्या Pt.1.11; Ms.1.9,3.64,1.79; Bg.18.44.

The harvest (कृषिफल); Y.1.276.

The earth; Mb.5. -Comp. -कर्मन् n. agriculture. -जीविन् a. living by husbandry. -द्विष्टः a kind of sparrow. -पराशरः, -संग्रहः N. of a treatise on agriculture (see Annals of the Bhandarkar Oriental Research Institute Vol.XXXVI Nos. 1-2.)-फलम् agricultural produce or profit; Me.16. -सेवा agriculture, husbandry.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृषि f. (exceptionally pl. VS. iv , 10 Subh. )ploughing , cultivation of the soil , agriculture (one of the वृत्तिs of a वैश्यVishn2. ) RV. VS. etc.

कृषि f. the cultivation of the soil personified S3Br. xi

कृषि f. the harvest Ya1jn5. i , 275 Dhu1rtas.

कृषि f. the earth(= भू) MBh. v , 2563.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the pursuit of agriculture, a duty of the वैश्य; introduced by पृथु. Br. II. 7. १६२; वा. ७९. ७१; Vi. I. १३. ८४.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛṣi, ‘ploughing.’ The cultivation of the soil was no doubt known to the Indians before they separated from the Iranians, as is indicated by the identity of the expressions yavaṃ kṛṣ and sasya in the Rigveda with yao karesh and hahya in the Avesta, referring to the ploughing in of the seed and to the grain which resulted.[१] But it is not without significance that the expressions for ploughing occur mainly in the first[२] and tenth[३] books of the Rigveda, and only rarely in the so-called ‘family’ books (ii.-vii.).[४] In the Atharvaveda Pṛthī Vainya is credited with the origination of ploughing,[५] and even in the Rigveda the Aśvins are spoken of as concerned with the sowing of grain by means of the plough.[६] In the later Saṃhitās and the Brāhmaṇas ploughing is repeatedly referred to.[७]

Even in the Rigveda[८] there is clear proof of the importance attached to agriculture. In the Pañcaviṃśa Brāhmaṇa[९] the Vrātyas, Hindus without the pale of Brahminism, are described as not cultivating the soil.

The plough land was called Urvarā or Kṣetra; manure (Śakan, Karīṣa) was used, and irrigation was practised (Khanitra). The plough (Lāṅgala, Sīra) was drawn by oxen, teams of six, eight, or even twelve being employed.[१०] The operations of agriculture are neatly summed up in the Śatapatha Brāhmaṇa[११] as ‘ploughing, sowing, reaping, and threshing’ (kṛṣantaḥ, vapantaḥ, lunantaḥ, mṛṇantaḥ). The ripe grain was cut with a sickle (Dātra, Sṛṇi), bound into bundles[१२] (Parṣa), and beaten out on the floor of the granary (Khala).[१३] The grain was then separated from the straw and refuse either by a sieve (Titau) or a winnowing fan (Śūrpa).[१४] The winnower was called Dhānyākṛt,[१५] and the grain was measured in a vessel called Urdara.[१६]

The Rigveda leaves us in doubt as to the kind of grain grown, for Yava is a word of doubtful signification, and Dhānā is also vague. In the later Saṃhitās[१७] things are different. Rice (Vrīhi) appears, Yava means barley, with a species styled Upavāka. Beans (Mudga, Māṣa), sesamum (Tila), and other grains (Aṇu, Khalva, Godhūma, Nīvāra, Priyaṅgu, Masūra, Śyāmāka) are mentioned, while cucumbers (Urvārū, Uryārūka) were known. It is uncertain whether fruit trees (Vṛkṣa) were cultivated, or merely grew wild;[१८] but frequent mention is made of the jujube (Karkandhu, Kuvala, Badara.).

The seasons for agriculture are briefly summed up in a passage of the Taittirīya Saṃhitā:[१९] barley ripened in summer, being no doubt sown, as in modern India, in winter; rice ripened in autumn, being sown in the beginning of the rains; beans and sesamum, planted at the time of the summer rains, ripened in the winter and the cool season. There were two harvests (Sasya) a year according to the Taittirīya Saṃhitā;[२०] the winter crop was ripe by the month of Caitra (March-April) according to the Kauṣītaki Brāhmaṇa.[२१]

The farmer had plenty of trouble of his own: moles destroyed the seed, birds and various kinds of reptiles (Upakvasa, Jabhya, Tarda, Pataṅga) injured the young shoots, excessive rain or drought might damage the crops. The Atharvaveda contains spells to prevent these evils.[२२]

  1. Zimmer, Altindisches Leben, 235;
    Hopkins, Journal of the American Oriental Society, 17, 85.
  2. Forms of the root kṛṣ, ‘to plough,’ occur in Rv. i. 23, 15;
    176, 2.
  3. Rv. x. 34, 13;
    117, 7. In x. 146, 6, akṛṣīvala, ‘not agricultural,’ occurs. Cf. x. 101, 4.
  4. Kṛṣ is also found in viii. 20, 19;
    22, 6;
    in the family books only in iv. 57, 4, and as vi-kṛṣ in iv. 57, 8.
  5. viii. 10, 24.
  6. i. 117, 21.
  7. Kṛṣi is found, e.g., in Av. ii. 4, 5;
    viii. 2, 19;
    10, 24;
    x. 6, 12;
    xii. 2, 27, etc.;
    Taittirīya Saṃhitā, vii. 1, 11;
    1, etc.;
    Maitrāyaṇī Saṃhitā, i. 2, 2;
    iii. 6, 8;
    Vājasaneyi Saṃhitā, iv. 10;
    ix. 27;
    xiv. 19. 21, etc.;
    Śatapatha Brāhmaṇa, vii. 2, 2, 7;
    viii. 6, 2, 2;
    Taittirīya Brāhmaṇa, iii. 1, 2, 5, etc. In Av. vi. 116, 1, kārṣīvaṇa denotes a ‘plougher.’ See also Kārṣman.
  8. x. 34, 13;
    117, 7. Cf. Hopkins, India, Old and New, 208.
  9. xvii. 1.
  10. Av. vi. 91, 1;
    Kāṭhaka Saṃhitā, xv. 2. Cf. Rv. viii. 6, 48;
    x. 101, 4.
  11. i. 6, 1, 3.
  12. viii. 78, 10;
    x. 101, 3;
    131, 2.
  13. Rv. x. 48, 7.
  14. Rv. x. 71, 2;
    Av. xii. 3, 19. The technical terms are tuṣair vi-vic, Av. xi. 1, 12;
    palāvān apa-vic, xii. 3, 19.
  15. Rv. x. 94, 13.
  16. Rv. ii. 14, 11. See also Sthivi.
  17. See Vājasaneyi Saṃhitā, xviii. 12, for a list.
  18. The pulling of ripe fruit is referred to in Rv. iii. 45, 4. Cf. pakvā śākhā, Rv. i. 8, 8;
    vṛkṣa pakva, Rv. iv. 20, 5;
    Av. xx. 127, 4. But that does not prove arboriculture.
  19. vii. 2, 10, 2.
  20. v. 1, 7, 3.
  21. xix. 3. Cf. Keith, Śāṅkhāyana Āraṇyaka, 81, n. 1.
  22. See Av. vi. 50. 142;
    vii. 11.

    Cf. Zimmer, Altindisches Leben, 235243.
"https://sa.wiktionary.org/w/index.php?title=कृषि&oldid=497162" इत्यस्माद् प्रतिप्राप्तम्