सामग्री पर जाएँ

कृष्णजीरक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कृष्णजीरकः, पुं, (कृष्णः कृष्णवर्णो जीरकः ।) कृष्ण- वर्णस्थूलजीरकः । केलेजीरा इति भाषा । तत्- पर्य्यायः । सुषवी २ कारवी ३ पृथ्वी ४ पृथुः ५ काला ६ उपकुञ्चिका ७ । इत्यमरः ॥ सुशवी ८ कुञ्चिका ९ । इति तट्टीकायां नयनानन्दः ॥ उपकुञ्चिः १० । इति रत्नमाला ॥ कृष्णा ११ जरणा १२ शाली १३ बहुगन्धा १४ । पृथुका १५ पृथिवी १६ भेषजम् १७ । इति शब्दरत्ना वली ॥ अपि च । “कृष्णजीरः सुगन्धश्च तथैवोद्गारशोधनः । कणाजाजी तु सुषवी कालिका चोपकालिका ॥ पृथ्वीका कारवी पृथ्वी पृथुः कृष्णोपकुञ्चिका । उपकुञ्ची च कुञ्ची च वृहज्जीरक इत्यपि ॥ जीरकत्रितयं रूक्षं कदूष्णं दीपनं लघु । संग्राहि पित्तलं मेध्यं गर्भाशयविशुद्धिकृत् ॥ ज्वरघ्नं पाचनं बल्यं वृष्यं रुच्यं कफापहम् । चक्षुष्यं पवनाध्मानगुल्मच्छर्द्यतिसारहृत्” ॥ इति भावप्रकाशः ॥ अस्य गुणाः । कटुत्वम् । उष्णत्वम् । कफशोथजीर्णज्वरनाशित्वम् । रुचि- चक्षुर्हितकारित्वम् । ग्राहित्वञ्च । इति राज- निर्घण्टः ॥ स तु स्थूलसूक्ष्मभेदेन द्विधा ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कृष्णजीरक¦ पु॰ नित्यकर्म्म॰। कालपर्ण्णजीरके (कालजीरे)अमरः
“कटूष्णः कफशोथघ्नो जीर्ण्णज्वरविनाशनः। चक्षुष्यो रुचिकृद्ग्राही कृष्णजीरक ईरितः” राजनि॰

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कृष्णजीरक¦ m. (-कः) Kalongi, a plant having a small black seed, which is used for medical and culinary purposes, (Nigella Indica, Rox.) E. कृष्ण black, and जीरक cummin seed.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कृष्णजीरक/ कृष्ण--जीरक m. id. Ka1tyS3r. xix , 1 , 20 Sch.

"https://sa.wiktionary.org/w/index.php?title=कृष्णजीरक&oldid=497187" इत्यस्माद् प्रतिप्राप्तम्