कृष्णद्वैपायनः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कृष्णद्वैपायनः, पुं, (द्वीपे भव इत्यण् । यद्वा द्वीपः अयनं उत्पत्तिस्थानं यस्य । प्रज्ञाद्यण् । कृष्ण- श्चासौ द्वैपायनश्चेति ।) वेदव्यासः । इति त्रिकाण्ड- शेषः ॥ (यथा, महाभारते १ । १०५ । १३ । “ततस्तस्मिन् प्रतिज्ञाते भीष्मेण कुरुनन्दन ! । कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम्” ॥ अस्य यमुनाद्वीपोत्पत्तिकथा यथा तत्रैव १ । १०५ । ७ -- १४ । “धर्म्मयुक्तस्य धर्म्मार्थं पितुरासीत्तरी मम । सा कदाचिदहं तत्र गता प्रथमयौवने ॥ अथ धर्म्मविदां श्रेष्ठः परमर्षिः पराशरः । आजगाम तरीं धीमांस्तरिष्यन् यमुनां नदीम् ॥ स तार्य्यमाणो यमुनां मामुपेत्याब्रवीत्तदा । सान्त्वपूर्ब्बं मुनिश्रेष्ठः कामार्त्तो मधुरं वचः ॥ तमहं शापभीता च पितुर्भीता च भारत ! । वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे ॥ अभिभूय स मां बालां तेजसा वशमानयत् । तमसा लोकमावृत्य नौगतामेव भारत ! ॥ मत्स्यगन्धो महानासीत् पुरा मम जुगुप्सितः । तमपास्य शुभं गन्धमिमं प्रादात् स मे मुनिः ॥ ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् । द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि ॥ पाराशर्य्यो महायोगी स बभूव महानृषिः । कन्यापुत्त्रो मम पुरा द्वैपायन इति श्रुतः” ॥ अन्यत् विवरणादिकमस्य व्यासशब्दे द्रष्टव्यम् ॥)
