सामग्री पर जाएँ

कृष्णधत्तूरकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कृष्णधत्तूरकः, पुं, (कृष्णवर्णो धत्तूरकः ।) कृष्णवर्ण- धुस्तूरः । कालधुतुरा इति भाषा । तत्पर्य्यायः । सिद्धः २ कनकः ३ सचिवः ४ शिवः ५ कृष्ण- पुष्पः ६ विषारातिः ७ क्रूरधूर्त्तः ८ । अस्य गुणाः । कटुत्वम् । उष्णत्वम् । कान्तिकारित्वम् । व्रणा र्त्तित्वग्दोषखर्जुकण्डूतिज्वरभ्रमनाशित्वञ्च ॥ “सि- तनीलकृष्णलोहितपीतप्रसवाश्च सन्ति धत्तूराः । सामान्यगुणोपेतास्तेषु गुणाढ्यस्तु कृष्णकुसुमः स्यात्” ॥ इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=कृष्णधत्तूरकः&oldid=128405" इत्यस्माद् प्रतिप्राप्तम्