कृष्णमुद्गः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कृष्णमुद्गः, पुं, (कृष्णः कृष्णवर्णः निकृष्टो वा मुद्गः वन- जातत्वात् ।) मुद्गविशेषः । कालमुग् इति भाषा । तत्पर्य्यायः । वासन्तः २ माधवः ३ सुराष्ट्रजः ४ । अस्य गुणाः । त्रिदोषदाहनाशित्वम् । मधुर- त्वम् । लघुत्वम् । दीपनत्वम् । पथ्यत्वम् । बल- वीर्य्याङ्गपुष्टिदातृत्वञ्च । इति राजनिर्घण्टः ॥ (यथाह भावप्रकाशः । “मुद्गो रूक्षो लघुर्ग्राही कफपित्तरसो हि सः । स्वादुरल्पानिलो नेत्र्यो ज्वरघ्नो वनजस्तथा ॥ मुद्गो बहुविधः श्यामो हरितः पीतकस्तथा । श्वेतो रक्तश्च तेषान्तु पूर्ब्बः पूर्ब्बो लघुः स्मृतः ॥ शुश्रुतेन पुनः प्रोक्तो हरितः प्रवरो गुणैः । चरकादिभिरप्युक्त एष एव गुणाधिकः” ॥)
