कृष्णम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कृष्णम्, क्ली, (“कृषेर्व्वर्णे” । उणां ३ । ४ । इति नक् ततो णत्वम् ।) मरिचम् । इत्यमरः । २ । ९ । ३६ ॥ (अस्य पर्य्याया यथा, -- “मरिचं वेल्लजं कृष्णमूषणं धर्म्मपत्तनम्” । इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ गुणाश्चास्य मरिचशब्दे ज्ञातव्याः ॥) लोहम् । इति जटाधरः ॥ नीलाञ्जनम् । इति राजनिर्घण्टः ॥ कालागुरु । इति रत्नमाला ॥
