कृष्णवर्त्मा
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कृष्णवर्त्मा, [न्] पुं, (कृष्णं कृष्णवर्णं वर्त्म यस्य । वायुप्रसारितधूमपथाभ्यन्तर एव गतिरस्येति भावः ।) अग्निः । (यथा, महाभारते १ । ८५ । १२ । “हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते” ॥) चित्रक वृक्षः । इत्यमरः ॥ (कृष्णं अपवित्रं कर्म्म आच- रणं यस्य ।) दुराचारः । राहुः । इति मेदिनी ॥ (कृष्णः वासुदेवः परब्रह्म इत्यर्थः वर्त्म गतिर्यस्य । ब्रह्मनिष्ठपुरुषः । इति व्युत्पत्तिलभ्योऽर्थः ॥)
