सामग्री पर जाएँ

कृष्णवीज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कृष्णवीजम्, क्ली, (कृष्णं वीजं यस्य ।) कालिङ्गम् । इति राजनिर्घण्टः ॥ (कालिन्दं तरवूज इति लोके । अस्य पर्य्याया गुणाश्च यथा । “कालिन्दङ्कृष्णवीजं स्यात् कालिङ्गश्च सुवर्त्तुलम् । कालिन्दं ग्राहिदृक्पित्तशुक्रहृच्छीतलं गुरु । पक्वन्तु सोष्णं सक्षारं पित्तलं कफवातजित्” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

कृष्णवीजः, पुं, (कृष्णं उग्रं वीजं यस्य ।) रक्तशिग्रु- वृक्षः । इति जटाधरः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कृष्णवीज¦ पु॰ कृष्णं वीजमस्य।

१ रक्तशिग्रौ, जटाधरः

२ कालिङ्गे वृक्षे न॰ राजनि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कृष्णवीज¦ m. (-जः) A red variety of the Morunga: see रक्तशीग्र। E. कृष्ण black, वीज the seed.

"https://sa.wiktionary.org/w/index.php?title=कृष्णवीज&oldid=293177" इत्यस्माद् प्रतिप्राप्तम्