केशर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशरः, पुं क्ली, (के जले पद्मशिरसि वा । सर- तीति । सृ + अच् । पृषोदरात् शत्वम् । यद्वा केश इव केशाकारः अस्यास्तीति । केश + रः ।) किञ्जल्कः । इत्यमरः । १ । १० । ४३ ॥

केशरः, पुं, (केश इव केशाकृतिपदार्थः अस्यास्तीति मत्वर्थीयो रः ।) नागकेशरवृक्षः । (यथा, -- गीतगोविन्दे । १ । ३१ । “मदनमहीप- तिकनकदण्डरुचिकेशरकुसुमविकाशे” ॥ वकुल- वृक्षः । (यथा, कुमारे । ३ । ५५ । “स्रस्तां नितम्बादवलम्बमाना पुनः पुनः केशरदामकाञ्चीम्” ॥) पुन्नागवृक्षः । (यथा, महाभारते । १ । १२५ । ३ । “पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः । कर्णिकारैरशोकैश्च केशरैरतिमुक्तकैः” ॥) सिंहजटा । इति मेदिनी ॥ (यथा, कादम्बर्य्याम् “मृगपतिरिव स्कन्धावलम्बितकेशरमालः” ॥) हिङ्गुवृक्षः । इत्यमरटीकायां भरतः ॥ नीपः । केलिकदम्ब इति भाषा । यथा, मेघदूते । २२ । “नीपं दृष्ट्वा हरितकपिशं केशरैरर्द्धरूढैः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केश(स)र¦ पुंन॰ के जले शिरसि वा शीर्य्यति शॄ अच् सरतिसृ--अच् अलुक्स॰ केशःकेशाकारोऽस्त्यस्यर वा।

१ किञ्जकेपद्मादिपुष्पमध्यस्थे केशाकारपदार्थभेदे (चुमरि) अमरः। सकेश(स)रपुष्पवत्त्वात्

२ नागकेशरे

३ बकुलवृक्षे

४ पुन्नाग-वृक्षे

५ सिंहादिस्कन्धस्थजटायां पु॰ मेदि॰

६ हिङ्गुवृक्षेन॰ भरतः
“मृगपतिरिव स्कन्धावलम्बितकेशरमालः” काद॰
“व्याकीर्णकेशरकरालमुखाः मृगेन्द्राः” पञ्चत॰
“पुनः पुनः केशरदामकाञ्चीम्” कुमा॰
“नीपं दृष्ट्वा हरि-तकपिशं दो{??}रैरर्द्धरूढैः” मेघ॰
“दशनांशुकेशरभरैः” प-[Page2246-b+ 38] रितः” माघः
“दुधुबुर्वाजिनः स्कन्धान् लग्नकुङ्गुमकै-शरान्” रघुः बकुले
“सुरभिगन्धपराजितकेशरम्” रघुः
“रक्ताशोकश्चलकिसलयः केशरश्चात्र कान्तः” मेघ॰।

७ कु-ङ्गुमे च तस्य किञ्जल्काकारवत्त्वेन जायमानत्वात् त-थात्वं एतेषु उदाहरणेषु दन्त्यमध्योऽपि वा पाठः। दन्त्यमध्यस्तु तुरगस्कन्धस्थलोमपुञ्जरूपजटायां हेमच॰कासीसे वीजपूरके पु॰ स्वर्णे न॰ राजनि॰
“अर्थाश्वाश्वैः

४ ,

७ ,

७ , र्मभनयरयुगैर्वृत्तं मतं केसरम्” वृ॰ र॰ उक्तेछन्दोभेदे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशर¦ mn. (-रः-रं) The filament of a lotus or of any vegetable. m. (-रः)
1. A plant, commonly Nageswar, (Mesua ferrea.)
2. A tree bearing a white strong smelling flower, (Mimusops elengi:) see वकुल।
3. A shrub used in dying, (Rottleria tinctoria;) also पुन्नाग।
4. A lion's mane. n. (-रं) Asafœtida. E. क water, &c. in the seventh case के, शृ to go, अप् affix; also with सृ to go केसर।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशर etc. See. केसर.

"https://sa.wiktionary.org/w/index.php?title=केशर&oldid=497296" इत्यस्माद् प्रतिप्राप्तम्