केशान्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशान्त¦ पु॰ केशानन्तयति छेदनात् हन्ति अन्ति (नामधातुः)अण्। द्विजातीनां षोडशादिषु वर्षेषु कर्त्तव्ये केशच्छेदना-ख्येगोदानकर्मणि। केशान्ताख्य गोदानकर्मप्रकारादि आश्व॰गृ॰

१ ।

१८ ।

१ । सूत्रादौ दर्शितं यथा
“एतेन गीदानम्” सू॰व्याख्यातमिति शेषः एतेनेति कृत्स्नोपदेशः तत्रविशेषमाह। ना॰ दृ॰।
“षोडशे वर्षे” सू॰। तृतीयस्यापवादः अत्रमातुरुप स्थोपवेशनं न भवति अयुक्तत्वात्” ना॰ वृ॰।
“केशशब्दे तु श्मश्रुशब्दान् कारयेत्” सू॰। केशशब्देत्विति जातावेकवचनं श्मश्रुशब्दानिति व्यक्तिपरोनिर्देशःतेन यत्र श्मश्रुशब्दाः तत्र
“अदितिः केशान् वपतु”।
“वप्ता केशान्”
“दक्षिणे केशपक्ष इति” त्रिषु ते कार्याः। तन्त्रगतस्य तृतीयस्य केशशब्दस्याभावाद्विधिगतस्य ग्रहणंतेन दक्षिणे श्मश्रुपक्ष इति साधितं भवति” वृ॰।
“श्मश्रुणीहोन्दति” सू॰।
“शिरस्युन्दनस्यापवादः”। वृ॰।
“शुन्धि शिरोमुखं मास्यायु प्रमोषीरिति” सू॰।
“क्षुरनिमार्जनेऽयं विशेषः” वृ॰।
“केशश्मश्रुलोमन-खान्युदक्संस्थानि संप्रव्यति” सू॰।
“शीतोष्णाभि-रद्भिरबर्थं कुर्वाणोऽक्षुण्वन् कुशली केशश्मश्रुलोमन-खान्युदक्संस्थानि कुर्विति नापितशासनम्” ना॰ वृ॰।
“काल्पुत्य वाग्यतः स्थित्वाऽहःशेषमाचार्यसकाशे-[Page2250-b+ 38] वाचं विसृजेत् वरं ददामीति” सू॰।
“तत आल्पुत्यस्नात्वेत्यर्थः। वाग्यत इत्यमन्त्रयमाणः। स्थित्वेत्युपवेशनप्रतिषेधः। एवमहःशेषं स्थित्वाऽस्तमिते आचार्यसमीपेवरं ददामीति वाचं विसृजेत्। वरद्रव्यमाह” ना॰वृ॰।
“गोमिथुनं दक्षिणा” सू॰। ननु भिक्षुरयं कथ-मस्य गोमिथुनसम्भवः उच्यते यथास्य प्रा{??}रणादिसम्भवस्तथास्यापि” वृ॰। संवत्सरमादिशेत्” सू॰। एवं गोदानं कृत्वा संवत्सरं व्रतमादिशेत् वक्ष्यमाणेनविधिना चरेत्। रात्रौ व्रतादेशाऽनुपपत्तेः अपरेद्युःकार्य्यम्” ना॰ वृ॰। एतेनेत्यनेन चूडाविहितनक्षत्रादिग्रहणातिदेशः यथाहमू॰ चि॰
“केशान्तं षोडशे वर्षे चौलोक्तदिवसे शुभम्”
“षोडशे वर्षे चौलोक्तदिवसे चूडावर्षतृतीयात् प्रभ-वतीत्यादिना कथितशुभदिवसे गोदानपर्यायं केशान्तसंज्ञं कर्म्म शुभं स्यात्” गावः केशा दीयन्ते खण्ड्यन्तेयस्मिन्नितिव्युत्पत्तिः यदाह्
“केशान्तं षोडशे वर्षेकुर्याच्चौलोक्तभादिके” इति। महेश्वरोऽपि
“कर्म केशान्तसंज्ञं हि स्मृतं वर्षे तु षोडशे। चौलकर्मोक्तधिष्ण्यादौ” षोडश इत्येतद्ब्राह्मणविषयं द्रष्टव्यं क्षत्रियविशोस्तुद्वाघिंशतिचतुर्विंशतितमवर्षयोः केशान्तमित्यर्थः तदुक्तंमनुना
“केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते। राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके ततः” पी॰ धा॰। चूडोक्तनक्षत्रादि च चूडाशब्दे वक्ष्यते। अत्र कर्मपर तयाक्लीवता। मनुवचने तु संस्कारपरतया पुंस्त्वमिति बोध्यम्। एतस्मात् पूर्वं महानाभ्र्यादिव्रतत्रयं वर्षत्रये कर्त्तव्यं तच्चउपनिषच्छब्दे सप्रमाणं दर्शितम्। केशस्यान्तः।

२ केशस्वरूपे

३ केशाग्रे च।
“केशान्तमन्तः कुसुमं तदीयम्” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशान्त¦ m. (-न्तः)
1. Cutting off the hair finally as a religious ceremony, performed upon Brahmans at sixteen years of age; Kshetriyas at twenty-two; and Vaisyas at twenty-four.
2. The tip or end of hair. E. केश and अन्त end.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशान्त/ केशा m. ( ifc. f( आ). )the border of the hair on the forehead S3a1n3khGr2. TUp. R. Sus3r.

केशान्त/ केशा m. long hair hanging down , lock of hair , tuft MBh. R. etc.

केशान्त/ केशा m. cutting off the hair finally (as a religious ceremony performed upon Brahmans at 16 years of age , क्षत्रियs at 22 , and वैश्यs at 24) Pa1rGr2. Gobh. Mn. ii , 65 Ya1jn5. i , 36

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशान्त पु.
(केशस्य अन्तः)=गोदान, 16वें वर्ष में बाल एवं दाढ़ी के मुण्डन का कृत्य, पा.गृ.सू. 2.1.7 (केशश्मश्विति केशान्ते।) केशिनी (दीक्षा) स्त्री. यजमान द्वारा अपनी दीक्षा के समय ‘व्रतप्रदानचमस-अभिमन्त्रण’ का पाठ करने के अनन्तर जपे जाने वाले विशिष्ट मन्त्रों का नाम, आप.श्रौ.सू. 1०.1०.6; द्रष्टव्य- ‘मनो मे मनसा दीक्षताम् स्वाहा’ आदि के साथ पाँच आहुतियों से युक्त) ‘केशिनी दीक्षा’ श्रौ.को. (सं.) II.37 (औद्ग्राभण आहुतियों के समय यजमान द्वारा हुत)

"https://sa.wiktionary.org/w/index.php?title=केशान्त&oldid=497310" इत्यस्माद् प्रतिप्राप्तम्