कौशलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशलम्, क्ली, (कुशलस्य भावः कर्म्म वा इति । युवा- दित्वात् अण् ।) कुशलता । यथा, -- “क्व चातिकर्कशः शान्तः क्व चातिललितः शुचिः । एकत्र काव्ये व्याख्यातुस्तावहो कौशलं कवेः” ॥ इति अमरुशतकटीका ॥ (नैपुण्यम् । यथा, भाग- वते । १ । १६ । २७ । “स्वातन्त्र्यं कौशलं कान्तिर्धैर्य्यं मार्दवमेव च” ॥ कुशलमेव इति । स्वार्थे अण् । मङ्गलम् । यथा, तत्रैव । ३ । १ । १३ । “स एष दोषः पुरुषद्विडास्ते गृहान् प्रविष्टोऽयमपत्यमत्या । पुष्णासि कृष्णाद् विमुखो गतश्री- स्त्यजाश्वशैवं कुलकौशलाय” ॥ चातुर्य्यम् । यथा, भगवद्गीतायाम् । २ । ५० । “तस्माद्योगाय युज्यस्व योगः कर्म्मसु कौशलम्” ॥)

"https://sa.wiktionary.org/w/index.php?title=कौशलम्&oldid=497588" इत्यस्माद् प्रतिप्राप्तम्