क्रत्वर्थ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्रत्वर्थ¦ पु॰ क्रतवेऽयम् अर्थेन सह नित्यस॰ विशेष्यतिङ्गताच, क्रतुरर्थोयस्य वा। क्रतूपकारके। तल्लक्षणादिकञ्चजै॰ सू॰ भाष्ययोर्दर्शितं यथा
“अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासा”
१ सू॰।
“तृतीयेऽध्यायेश्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानैः शेषविनियोग-लक्षणमुक्तम्। इह इदानीं क्रत्वर्यपुरुषार्थौ जिज्ञास्येते,--कः क्रत्वर्थः? कः पुरुषार्थः? इति, यापि प्रयोजका-प्रयोजकफलविध्यर्थवादाङ्गप्रधानचिन्ता, सापि क्रत्वर्थ-पुरुषार्थजिज्ञासैव। कथम्?। अङ्गं क्रत्वर्थः, प्रधानंपुरुषार्थः, फलविधिः पुरुषार्थः, अर्थवादः क्रत्वर्थः,प्रयोजकः कश्चित् पुरुषार्थो, ऽप्रयोजकः क्रत्वर्थः। तस्मात्
“क्रत्वर्थपुरुषार्थयोर्जिज्ञासा” --इति सूत्रितम्। तत्रअथातःशब्दौ प्रथमे एवाध्याये प्रथमसृत्रे वर्णितौ। अथेति प्रकृतं शेषविनियोगलक्षणमपेक्षते। अतः--इतिक्रत्वर्थपुरुषार्थजिज्ञासाविशेषं प्रकुरुते। क्रतये यः, स[Page2286-a+ 38] क्रत्वर्थः, पुरुषाय यः, स पुरुषार्थः। जिज्ञासाशब्दोऽपितत एव समधिगतः,--ज्ञातुमिच्छा जिज्ञासा--इति। तदेतत् प्रतिज्ञासूत्रम्,--
“क्रत्वर्थपुरुषार्थयोर्जिज्ञासा” --इति”। (
४ ।
१ ।
१ ) शवरभाष्यम्
“यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्साऽर्थलक्षणाऽवि-भक्तत्वात्” सू॰
२ ।
“अथ किंलक्षणः क्रत्वर्थः, किंलक्षणः पुरुषाथः इतिलक्षणं वाच्यं, तथा हि लवीयसी प्रतिपत्तिः,उपदेशे गरीयसी तदुच्यते,--यस्मिन् प्रीतिः पुरु-षस्यं, (यस्मिन्कृते पदार्थे पुरुषस्य प्रीतिर्भवति) स पुरु-षार्थः पदार्थः। कुतः?। तस्य लिप्सा अर्थेन चभवति, न शास्त्रेण, क्रत्वर्थो हि शास्त्रात् अवगम्यते, नअन्यथा, अविभक्तो हि पुरुषार्थः प्रीत्या, यो यः प्री-तिसाधनः स पुरुषार्थः। पुरुषार्थं लक्षिते तद्विपरीतःक्रत्वर्थः--इति क्रत्वर्थस्य लक्षणं सिद्धम् (
१ वर्ण्णकम्)। एवं वा सूत्रं वर्ण्यते,--दर्शपूर्णमासयोराम्नायते,--‘ अन-तिदृश्यं स्तृणाति अनतिदृश्यमेवैनं प्रजया पशुभिः करोति॰ इति तथा आहार्यपुरीषां पशुकामस्य वेदिं कुर्यात्,वत्सजानुम् पशुकामस्य वेदिं कुर्यात्, गोदी हनेन पशुकामस्यप्रणयेत्” --इत्येवमादीति। तत्र संशयः,--किम् एवञ्जा-तीयकाः क्रत्वर्थाः उत पुरुषार्थाः--इति। किं प्राप्तम्--क्रत्वर्थाः इति। कुतः? प्रत्यक्ष उपकारस्तेभ्यो दृश्यतेक्रतोः, पुरीषहरणं वेदिस्तरणं च, तदुक्तं, (
२ ।
१ ।
३ सू॰)द्रव्यगुणसंस्कारेषु वादरिः’ --इति। तस्मात् क्रत्वर्थाः-एवं प्राप्ते ब्रूमः, यस्मिन प्रीतिः पुरुषस्य स पुरुषार्थ एवइति, पीतिस्तेभ्यो निर्वर्त्त्यते, तस्मात् एते पुरुषार्थाः--इति। ‘ ननु प्रत्यक्षः उपकारः क्रतोर्दृश्यते--इत्युक्तम्’। उच्यते-सत्यं दृश्यते, न तु क्रतोरुपकाराय एभ्यः सङ्कीर्त्तितेभ्यः,फलेभ्य एते श्रूयन्ते, न च य उपकरोति स शेषः, यस्तुयदर्थः श्रूयते, स तस्य शेषः--इत्युक्तं(
३ ।
१ ।
२ सू॰)‘ शेषःपरार्थत्वात्’ --इति। (
२ वर्णकम्)एवं वा, द्रव्यार्जनम् उदाहरणम्, इह द्रव्यार्जनंतैस्तैर्नियभैः श्रूयते, ब्राह्मणस्य प्रतिग्रहादिना, राजन्यस्यजयादिना, वैश्यस्य कृष्यादिना। तत्र सन्देहः,--किं क्र-त्वर्थो द्रव्यपरिग्रहः उत पुरुषार्थ इति। किं प्राप्तम्क्रत्वर्थो नियमात्, यद्येष पुरुषार्थः स्यात्, नियमोऽन-र्थको भवेत्, प्रत्यक्षेण एतत् अवगम्यते,--नियमादनिय-माच्चार्जितं द्रव्यं पुरुषं प्रीणयति--इति, तस्मात् क्रत्वथुः[Page2286-b+ 38] कामश्रुतिभिश्चास्य सहैकवाक्यता दृष्टा, इतरथा, अनुमे-येन फलवाक्येन सहैकवाक्यतां यायात्। लिङ्गं चापिभवति,--’ अग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत्,यस्याहिताग्नेः सतोऽग्निर्गृ हान् दहेत्, यस्य हिरण्यंनश्येदाग्नेयादीनि निर्वपेत्--इत्येवमादि तद्धि द्रव्योपघातेचोद्यते यदि द्रव्यपरिग्रहः कर्मार्थः तत एतदपि सतिसम्बन्धे कर्मार्थम्--इत्युच्यते इतरथा असति सम्बन्धेकर्म्मार्यम्--इत्यनुमीयते फलं च अस्य कल्प्येत। तस्मात्यजतिश्रुतिगृहीतं द्रव्यार्जनं येन बिना यागो न निर्व-र्त्त्यते, स यागस्य श्रुत्या परिगृहीतः--इति गम्यते। तस्मात् क्रत्वर्थः--इति। एवं प्राप्ते ब्रूमः,--पुरुषार्थः--इति। यस्मिन् कृतेपदार्थे प्रीतिः पुरुषस्य भवति तस्मात् अस्य लिप्सा अ-र्थलक्षणा शरीरधारणार्था यस्य शरीरं ध्रियते व्यक्तंतस्यास्ति द्रव्यं शरीरिणां यागः श्रूयते तस्मात् विद्यमा-नद्रव्यस्य विनियोग उच्यते। न द्रव्यार्ञनं श्रुतिगृहीतंविनापि हि द्रव्यार्जनवचनत्वेन शब्दस्य यागो निर्व-र्त्त्यत एव, तस्मात् पुरुषार्थो द्रव्यपरिग्रहः। अपि च, यदि शास्त्रात् कर्मार्थं द्रव्यार्जनं, तन्नान्यत्रविनियुज्येत तयार्जितम्, तत्र सर्वतन्त्रपरिलोपः स्यात्। अपि च उपक्रान्तानि सर्वकर्माणि द्रव्यार्जनेन भवेयुः,तत्र एतन्नोपपद्यते,--अपि वा एष सुवर्गाल्लोकाच्छिद्यते,यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वाअतिपातयेत्’ --इति एवञ्च सति प्रयोगकालाद्बहिरेतदङ्गंसदनुपकारकं स्यात्। न च आधानवत् भवितुमर्हति, तत्रहि वचनं--वसन्तेऽग्निमादधीत--इति न चैतत् अङ्गम्अथ युदुक्तं--नियमवचनम् अनर्थकं पुरुषार्थे द्रव्यपरि-ग्रहे सति--इति। उच्यते, नैतावता पुरुषार्थता व्याव-र्त्त्यतेप्रत्यक्षा हि सा, त्वया च परोक्षया युक्तिबुद्ध्या व्यपदिश्यते, न च परोक्षं प्रत्यक्षस्य बाधकं भवति, तस्मात्नियमवचनात् काममपरमदृष्टं कल्प्येत न तु दृष्टहानम्तस्मात् यत् पुरुषस्य प्रयोजनं प्रीतिः तदर्थं धनस्य अ-र्जनम्--इत्येवं च सति व्रीहिणा यागः कर्त्तव्यः प्रीत्यर्थ-मर्जितेन वा क्रत्वर्थमर्जितेन वा न अत्र कश्चित् विशेषःप्रीत्यर्थम् उपार्जितोऽपि व्रीहिः व्रीहिरेव, कर्मार्थम्उपार्जितोऽपि व्रीहिः व्रीहिरेव। तस्मात् न प्रयोगचो-दनागृहीतं द्रव्यार्जनम्। अथ यदुक्तम्--अनुमेयेनाप्रकृ-तेन वा शव्देन युष्मत्पक्षे नियमख एकवाक्यता, अस्मत्पक्षे[Page2287-a+ 38] तु दृष्टेन प्रयोगपचनेन--इति नैष दोषः अस्मत्पक्षेऽपिदृष्टेन भुजिना न फलवचनेन। ‘ कथं तर्हि--नियमाद-दृष्ट भवति--इति गम्यते’। यथैव भवदीये पक्षे। आह अस्मत्पक्षे फलवत एकवाक्यभावात् फलवत उप-करोति इति गम्यते’। उच्यते अस्मत्पक्षेऽपि फल-वत एवैकवाक्यभावः, एतावांस्तु विशेषः--तव श्रुतं फलंमम तु दृष्टम्। अथ यत् लिङ्गम् उक्तं--गृहदाहादिषुकर्म श्रूयते--इति। तत्र उच्यते यद्यपि न क्रत्वर्थं द्रव्या-र्जनं तथापि दाहे निमित्ते फलाय वा कर्माङ्गभावायवा क्षामवत्यादीनां विधानम् उपपद्यत एव। तस्मात्पुरुषार्थं द्रव्यार्जनं प्रीत्या हि तदविभक्तम्” भाष्यम्तत आरभ्य क्रत्वर्थाः पदार्थास्तत्र दर्शिताः ततएवावगम्याः
