क्रमज्या
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्रमज्या¦ स्त्री ग्रहाणां स्पष्टाधिकारे सि॰ शि॰ उक्ते घतु-र्विंशत्यर्द्धजीवाभेदे तन्मानं तत्रोक्तं यथा
“तत्त्वाश्विनो नन्दसमुद्रवेदाश्चन्द्राद्रिषट्का गगनाङ्कनागाःपञ्चाभ्ररुद्रास्तिथिविश्वतुल्या आद्यैर्निरुक्ता नखवाण-चन्द्राः। नन्दावनीशैलभुवो दिगङ्कचन्द्रा हुताशग्रहपू-र्णदस्राः। तुरङ्गषट्काकृतयः कुरामसिद्धाः शराष्टेषुयमाःक्रमेण। गजाश्विभान्यङ्कशराष्टदस्रास्तुरङ्गसप्तग्रहलोच-नानि। अम्भोधिकुम्भ्यभ्रगुणास्तुरङ्गशैलेन्दुरामा रसभू-तदन्ताः। कुदन्तलोका द्वितुरङ्गदेवा गोऽभ्राब्धिलोकाःकुगुणाब्धिरामाः। भुजङ्गलोकाब्धिगुणाः क्रमज्या” मू॰
“इह हि स्पष्टीकरणप्रभृति सर्वकर्मार्घज्याभिः प्रतिपा-द्यते। यतो ग्रहवलये कोऽप्यवधिभूतः प्रदेशोमध्य-शब्देनोच्यते। तस्मान्मध्यसूत्रात् तिर्यक्स्थोग्रहो वलये-ऽर्धज्याग्रे भवति। अतोऽर्धज्याभिः सर्वं कर्म। तत्र[Page2303-b+ 38] भगणकलाङ्कितवृत्तचतुर्थांशे ईदृशान्येव चतुर्विंशति-र्ज्यार्धानि भवन्ति” प्रमिता॰।
२४ क्रमज्याङ्काश्च यथा
२२
५ ।
४४
९ ।
६७
१ ।
८९
० ।
११
०५ ।
१३
१५ ।
१५
२० ।
१७
१९ ।
१९
१० ।
२०
९३ ।
२२
६७ ।
२४
३१ ।
२५
८५ ।
२७
२८ ।
२८
५९ ।
२९
७७ ।
३०
८४ ।
३१
७७ ।
३२
५६ ।
३३
२१ ।
३३
७२ ।
३४
०९ ।
३४
३१ ।
३४
३८ । तासां तथामानं समर्थितं सू॰ सि॰ रङ्गनाथाभ्यां यथा
“राशिलिप्ताष्टमो भागः प्रथमं ज्यार्धमुच्यते। तत्तद्वि-भक्तलब्धोनमिश्रितं तद् द्वितीयकम्। आदोनैवं क्रमात्पिण्डान् भक्त्वा लब्धोनसंयुताः। खण्डकाः स्युश्चतुर्विंश-ज्ज्यार्धपिण्डाः क्रमादमी” सू॰ सि॰।
“एकराशिकलानामष्टादशशतानामष्टमोंऽशस्तत्त्वाश्विमितः
२२
५ प्रथममाद्यं ज्यार्धं सम्पूर्णजीवार्धपिण्डकः कथ्यतेतदभिज्ञैः। ततः प्रथमज्यार्धात् तेन प्रथमज्यार्धेन भक्ता-ल्लब्धेन हीनमन्यस्याप्रसङ्गात् प्रथमज्यार्धमनेन युक्तं तत्प्रथमज्यार्धं द्वितीयकं ज्यार्धं भवति द्विगुणप्रथममे-कोनम्। तृतीयादीनामानयनार्थमुक्तप्रकारमतिदिशतिआद्येनेति। प्रथमज्यार्द्धपिण्डेन। एवमुक्तरीत्या क्रमात्सिद्धपिण्डान् भक्त्वा लब्धैरूनमाद्यं खण्डमनेन युताःखण्डका असिद्धाव्यवहितसिद्धज्यार्धपिण्डा असिद्धपिण्डाभवन्ति। यथा प्रथमखण्डं
२२
५ प्रथमभक्तं फलं
१ तेनहीमं खण्डं
२२
४ तेन युक्तं द्वितीयखण्डं
४४
९ । तच्चप्रथमभक्तं फलम्
२ अर्धाधिकावयवस्यैकाधिकत्वेन ग्रह-णस्य साम्प्रदायिकत्वात्। फलैक्येन
३ रीनं प्रथमम्
२२
२ अनेन द्वितीयखण्डो
४४
९ युतस्तृतीयम्
६७
१ । एवमिदंप्रथमखण्डभक्तं फलम्
३ अनेन पूर्वफलैक्येन
३ युतं जातंसर्व्वफलैक्यम्
६ अनेन प्रथमं खण्डं हीनम्
२१
९ अनेनतृतीय
६७
१ युतं चतुर्थम्
८९
० । एवमिदं प्रथमखण्डभक्तंफलं
४ पूर्व्वलब्धैक्येन
५ रीनं प्रथमखण्डरूपं
२१
९ ज्यान्तररूपखण्डकमतेन
४ हीनं
२१
५ चतुर्थ
८९
० युतंपञ्चमं
११
०५ एवमग्रेऽपि। अथोक्तरोत्याऽसङ्ख्यखण्डानांसम्भवात् खण्डनियममाह स्युरिति। एवं चतुर्वंशत्स-ङ्ख्याका ज्यार्धपिण्डाः कार्या न तदधिकाः।
“एक-विंशाच्च विंशाच्च षष्ठात् पञ्चदशादपि। सप्तमाद्द्वादशात् स-प्तदशान्नार्धोत्तरं मतम्” इति ब्रह्मसिद्धान्तोक्तस्थलेऽर्धा-धिकावयवस्यैकाधिकत्वेन न ग्रहणम् इतिध्येयम्। गणितस्याविकृतत्वात् सिद्धाः पिण्डाः कथं नोक्ताः? इत्यतआह क्रमादिति। अमी सिद्धाः पिण्डाः क्रमात्[Page2304-a+ 38] समनन्तरमेवोच्यन्ते। अत्रोपपत्तिः। समायां भूमौ वृत्तंभगणकलाङ्कितं तिर्यगूर्ध्वाधरव्यासमितरेखाभ्यां चतुर्भागंकार्यं तत्रोर्द्ध्वरेखासक्तपरिधिप्रदेशादुभयत्र समविभागंविगणय तदग्रयोर्बद्धं सूत्रं वृत्ते द्विगुणविभागमितस-म्पूर्णचापस्य सम्पूर्णज्या। अत्र गणिते ऊर्द्ध्वरेखातोऽर्द्धज्याया एव प्रयोजनात् तदर्घचापस्यज्यार्धमर्धज्या। एवं वृत्तचतुर्थांश ऊर्द्ध्वरेखातोऽभीष्टांशानां चापार्धाका-राणामर्धज्या अमीष्टा गण्याः। तत्र भगवता स्वेच्छयावृत्तचतुर्धांशे त्रिराशिमिते चतुर्विंशज्ज्याः कल्पितास्त-ज्ज्ञानं तु वृत्ते चक्रकलानामङ्कितत्वात् तत्परिधिव्यासार्धंत्रिराशिज्यान्तिमा
३४
३८ । यदा भनन्दाग्निमितपरिधौ
३९
२७ खवाणसूर्य
१२
५० मितो व्यासस्तदा चक्रकलापरि-धौ क इत्यनुपातेन व्यासानयनम्। यथा चक्रकलाः
२१
६०
० खवाणसूर्य
१२
५० पुणाः
२७
००
००
० ॰ भनन्दाग्नि
३९
२७ भक्ता व्यासः
६८
७६ एतदर्धमन्तिमा ज्या
३४
३८ । अथ वृत्ते चापज्ययोर्विवेके तयोरतुल्यत्वमपि भगवताकोऽपि वृत्तभागः समोऽस्त्यन्यथामलकादौ सर्षपाद्य-वस्थानं न स्यादिति मत्वा तद्भागस्यज्या तत्तुल्यैवेत्युक्तम्।
“वृत्तस्य षण्णवत्यंशो दण्डवद्दृश्यते तु सः” इति शाक-ल्योक्तेः प्रथमज्या चक्रकलाद्वादशांशरूपैकराशिकला-नामष्टमोऽंशस्तत्त्वाश्विमितः
२२
५ एतन्मितमेव प्रथमचाप-मत एतदन्तरेणाभीष्टा ज्याश्चतुर्वंशत्। अथ चतुर्विंशतिजीवानां यथोत्तरमुपचयात् तदन्तररूपखण्डानां यथो-त्तरमपचयस्य वृत्ते ज्याङ्कनेन प्रत्यक्षत्वाज्ज्यान्तररूप-खण्डानामन्तरं यथोत्तरमुपचितमिति द्वाविंशतित्रयो-विंशतिचतुर्विंशतिज्यानामन्तरयोरन्तरमिदं परमं खण्डा-न्तरं सूक्ष्मज्योत्पत्तिप्रकारेणावगतं
१५ ।
१६ ।
४८ । अथ यदि त्रिज्ययेदं खण्डकान्तरं तदा प्रथमज्ययाकिमित्य नुपातेन फलप्रमाणयोः फलेनापवर्त्त्य प्रमाणस्थानेतत्त्वाश्विनोऽनेन भक्तः प्रथमर्ज्या फलं पूर्व्वद्वितीय-खण्डयोरन्तरम्। अनेन पूर्ब्बखण्डं हीनं द्वितीयंखण्डं भवति। तत्र पूर्ब्बखण्डं प्रथमज्यातुल्यमेव। द्वितीयखण्डं प्रथमज्यायां युतं द्वितीयज्या। एवमस्या-स्तत्वाश्विभागलन्धं द्वितीयतृतीयखण्डकयोरन्तरमनेनद्वितीयखण्डमूनं तृतीयखण्डमित्यनेन द्वितीयज्या युतातृतीयज्या। एवं चतुर्थ्याद्याः। तत्र पूर्बमर्धाभ्यधिकग्र-हणेनोत्तरत्राधिकान्तरपातसम्भावनया क्वचित् क्वचिदर्धा-भ्यधिकावयवस्यैकाधिकत्वेन ग्रहणम् इत्युपपन्नं श्लोक-[Page2304-b+ 38] द्वयम्” रङ्ग॰। उत्क्रमज्याङ्कास्तु ज्याशब्दे वक्ष्यन्ते
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्रमज्या¦ f. (-ज्या) (In astronomy,) The sine of a planet's declination. E. क्रम् going, and ज्या sine.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्रमज्या/ क्रम--ज्या f. id. Su1ryas. ii , 32 and 60.
