क्रयबिक्रय
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्रयबिक्रय¦ पु॰ द्वि॰ व॰। द्वन्द्वः
१ क्रये विक्रये च।
“आगम निर्ग-मस्थानं तथा वृद्धिक्षयावुभौ। विचार्य्य सर्वपण्यनां का-रयेत् क्रयविक्रयौ। पञ्चरात्रे पद्मरात्रे पक्षे पक्षेऽथवागते। कुर्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नृपः” मनुः।
“आगमनियमोपयोगादेः पण्यानामनियतत्वात् अस्थिरा-र्घाणां पञ्चरात्रे पञ्चरात्रे गते, स्थिरतरार्वाणां पक्षे पक्षेगते बणिजामर्घविदां प्रत्यक्षं नृपतिराप्तपुरुषेण व्यबस्थां(मूल्यस्य) कुर्य्यात्” कुल्लू॰।
“क्रयविक्रयानुशयश्च विबादःस्यायिपालयोः” मनुः। क्रयसहितोविक्रयः शा॰ त॰।
२ क्रयसहितविक्रये।
“देवदानवगन्धर्वयक्षराक्षसपन्नगाः। नासन् कुतयुगे तात! तदा न क्रयविक्रयः” भा॰ व॰
१४
९ अ॰।
३ तद्युक्ते बाणिज्ये
“ऋणदानं तथादानंवस्तूनां क्रयविक्रयम्। न कुर्य्याद्गुरुणा सार्द्धं शि-ष्योभूत्वा कथञ्चन” तन्त्रसा॰।
