क्रान्तिज्या
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्रान्तिज्या¦ स्त्री क्रान्तिवृत्तक्षेत्रस्थे सि॰ शि॰ उक्ते अक्ष-क्षेत्रावयवभेदे। अक्षक्षेत्रशब्दे
४२ पृ॰ अक्षक्षेत्राणिउक्तानि। तन्मानानयनम्।
“युक्तायनांशादपमः प्रसाध्यः कालौ च खेटात् खलुभुक्तभोग्यौ। जिनांशमौर्व्या
१३
९७ गुणितार्कदोर्ज्यात्रिज्यी
३४
३८ द्धृता क्रान्तिगुणोऽस्य वर्गम्। त्रिज्या-कृतेः
११
८१
९८
४४ प्रोज्झ्य पदं द्युजीवा क्रान्तिर्भबेत्क्रान्तिगुणस्य चापम्। अक्षप्रभासंगुणितापमज्या तद्द्वाद-शांशो भवति क्षितिज्या सि॰ शि॰।
“अत्र खेटादित्युपलक्षणम्। यस्मात् खेटाल्लग्नाद्वाऽपमःसाध्यस्तस्मात् सायनांशादेव। तथा यस्मादुदयसम्बन्धिनौभुक्तभोग्यकालौ साध्यौ तस्मादपि सायनांशादेव। सायनार्कस्य दोर्ज्या जिनभागज्यवा गुणिता त्रिज्ययाभक्ता क्रान्तिज्या स्यादित्यादि स्पष्टार्थम्। अस्योपपत्तिः। विषुवत्क्रान्तिवृत्तयोर्याम्योत्तरमन्तरं क्रान्तिः। तयोः संपाते क्रान्त्यभावः। ततस्त्रिभेऽन्तरे परमाजिन
२४ तुल्यभागाः। अतस्तत्संपातादारभ्य क्रान्तिः सा-ध्या। उदयाश्च तत एव। स तु संपातो मेषादेः प्रागप्र-नांशतुल्येऽन्तरे। अतः सायनांशात् खेटात् क्रान्तिर्भुक्त-भोग्यकालौ चेत्युक्तम्। यदि त्रिज्यातुल्यया भुजज्य-या जिनांशज्यातुल्या क्रान्तिज्या लभ्यते तदेष्टज्यया-किमिति। फलं क्रान्तिज्या विषुवद्वृत्तात् तिर्यग्रूपाभवति। क्रान्तिज्या भुजस्त्रिज्या कर्णस्तद्घर्गान्तरपदम-होरात्रवृत्तव्यासार्धम्। सैव द्युज्या” प्रमि॰। देशभेदे कालभेदेन रवेः क्रान्तिज्याज्ञानार्थं प्रश्नपूर्वकं सि॰शि॰ निर्ण्णीतं यथा(
“मार्तण्डः सममण्डलं किल यदा दृष्टः प्रविष्टः सखे!काले पञ्चघटोमिते दिनगते यद्वा नते तावति। केनाप्यु[Page2315-b+ 38] ज्जयिनीगतेन तरणेः क्रान्ति तदा वेत्सि चेन्मन्ये त्वांनिशितं सगर्वगणकोन्मत्तेभकुम्भाङ्गुशम्”। (
“हे गणक! केनचित् किलोज्जयिनीगतेन यदादिनगते पञ्चघटीमिते काले मार्तण्डः सममण्डलं प्रविष्टोदृष्टस्तदा कियती क्रान्तिज्येत्येकः प्रश्नः। अथान्यःतावति पञ्चघटीमिते नते वा काले समण्डलं प्रविष्टो दृष्ट-स्तदा च या क्रान्तिज्या तां त्वं चेद्वेत्सि तदा सगर्वगणकोन्मत्तेभकुम्भाङ्कुशं निशाणोद्धृतं त्वामहं मन्ये” प्रनि॰(
“या स्याद्रवेरुन्नतकालजीवाभीष्टा हृतिः सा प्रथमंप्रकल्प्या। अर्का
१२ क्षभावातहताक्षकर्णकृत्योद्धृतास्यादपमज्यकाऽस्याः। चरादिकेनेष्टहृतिः प्रसाध्याक्षुण्णस्तया क्रान्तिगुणोऽसकृच्च। तदाद्यहृत्या विहृतःस्फुटः स्यात् सहस्ररश्मौ सममण्डलस्थे” सि॰ शि॰। (
“रवेः समण्डलप्रवेशे य उन्नतकाल उद्दिष्टस्तस्य जीवासा तावत् प्रथममिष्टहृतिः कलप्या। ततो द्वादशगुणया-क्षया गुण्या पलकर्णवर्गेण भाज्या। सा किल स्थूलाक्रान्तिज्या भवति। तस्याः क्रान्तिज्याया द्युज्यां कु-ज्यां चरज्यां चरं च कृत्वा
“अथोन्नतादूनयुताच्चरेण” इत्या-दिमेष्टहृतिः साध्या। तया पूर्वमागता क्रान्तिज्या गुण्या। आद्यहृत्या कल्पितया भाज्या। फलं स्फुटासन्ना क्रा-न्तिज्या भवति। अत्रोपपत्तिः। अत्रोन्नतवालजीवातुल्याप्रथमं तद्धृतिः कल्पिता। तस्या अनुपातेन शङ्कुः। यदिपलकर्णेन द्वादशकोटिस्तदा तद्धृतिकर्णेन किमिति। अत्रतद्धृतेर्द्वादशगुणः पलकर्णो हरः। फलं सममण्डलश-ङ्कुः। पुनरन्योऽनुपातः। यदि पलकर्णेनाक्षभा भुजोलभ्यते तदा सममण्डलशङ्कुतुल्येन कर्णेन किमिति। फलंक्रान्तिज्या स्थूला। अस्याः क्रान्तिज्यायाश्चरादिकेन
“अथोन्नतादूनयुताच्चरेण” इत्यादिनेष्टहृतिः साध्या। तां तद्धृतिं प्रकल्प्य पुनः क्रान्तिज्या साध्या। एवमसकृ-द्यावदविशेषः। तत्रासकृत्कर्मणि त्रैराशिकेन क्रियोपमं-हारः कृतः। यदि कल्पितया हृत्येयं क्रान्तिज्या लभ्यतेतदेदानीमानीतया किमिति। एवं क्रान्तिज्या स्फुटास्यादित्युपपन्नम्। इदानीं द्वितीयप्रश्नस्योत्तरमाह” प्रमि॰(
“तदा नतज्यात्रिभजीवयोर्यद्वर्गान्तरं तत् पलमाकृ-तिघ्नम्। तेनोद्धृतो व्यासदलस्य वर्गो वेदेन्द्र
१४
४ निघ्नोऽथसरूपलब्ध्या। व्यासार्धवर्गाद्विहृतात् पदं स्यात् क्रा-न्तिज्यका सा त्रिभशिञ्जिनीघ्नी। जिनांशमौर्व्या विहृ-ताऽथचापादग्रे प्रवक्ष्ये च यथा रविः स्यात्” सि॰ शि॰। [Page2316-a+ 38](
“यदा सममण्डलं प्रविष्टो दृष्टस्तदा या नतघटिका-स्तासां जीवा तस्या वर्गेण त्रिज्यावर्गो रहितः। ततः पलभावर्गेण गुण्यः। तेन भाज्यस्त्रिज्यावर्गः। किंविशिष्टः वेदेन्द्र
१४
४ गुणितः। तत्र यत् फलं लभ्यतेतन सैकेन त्रिज्यावर्गाद्भक्ताद्यन्मूलं लभ्यते सा क्रान्ति-ज्या स्यात्। सा क्रान्तिज्या त्रिज्यागुणा जिनां-शज्यथा भक्ता यत् फलं तस्य चापाद्यथा रविर्भवतितथाग्रे वक्ष्ये” प्रमि॰। क्रान्तिज्याविशेषेण रव्यादिज्ञानादिकमपि तत्रोक्तं विस्तरभयात् नोक्तम्। क्रमज्याशब्दे
२३
०३ पृ॰ दर्शिते
२ क्रम-ज्यारूपे पदार्थे च।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्रान्तिज्या¦ f. (-ज्या) Sine of the declination E. क्रान्ति, and ज्या sine.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्रान्तिज्या/ क्रान्ति--ज्या f. id. Su1ryas. ii , iii , xi.
