क्रालागुरु
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्रालागुरु¦ न॰ कर्म॰। कृष्णागुरुणि अमरः तद्गुणादिभावप्र॰ उक्तं यथा
“अगुरु प्रवरं लोहं राजार्हंयोगजं तथा। बंशिकं कृमिजं चापि कृमिजग्धमना-र्य्यकम्। अगुरूष्णं कटु त्वच्यं तिक्तं तीक्ष्णञ्च पि-त्तलम्। लघु कर्णाक्षिरोगघ्नं शीतवातकफप्रणुत्। कृष्णं गुणाधिकं तत्तु लौहवद्वारि मज्जति। अगुरुप्रभवः स्नेहः कृष्णागुरुसमः स्मृतः”। तदुत्-पत्तिदेशश्च प्राग्ज्योतिषदेशः यथाह रघौ
“चकम्बेतीर्णलौहित्ये तस्मिन् प्राग्ज्योतिषेश्वरः। तद्गजाला-नतां प्राप्तैः सह कालागुरुद्रुमैः”।
