सामग्री पर जाएँ

क्रियाफल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

क्रियाफल¦ न॰

६ त॰।
“उत्पत्तिराप्तिर्विकृतिः संस्कृतिश्च चतु-र्विधम्। क्रियाफलं प्राहुरार्य्या” कैवल्ये तन्न विद्यते” वेदा॰ प्र॰ उक्ते

१ कर्म्मफके उत्पत्त्यादौ,

२ यागादिजन्येपुण्यापुण्यादौ च। क्रियाजन्ये तृप्तिस्वर्गादिरूपे प्रयो-जनापरपर्य्यायरूपे

३ फले
“स्वरितञितः कर्त्त्रभिप्रायेक्रियाफले” पा॰। विवृत्तञ्चैतदस्माभिः शब्दार्थरत्ने यथा
“स्वरितञिद्धातूत्तरतङः कर्त्तृगामिन्येव सति क्रियाफ-ले कर्त्तृवाचकत्वं नान्यथा तत्र फलञ्च न धातूपस्थाप्यं,जानात्यादीनां ज्ञानरूपफलस्य समवायेन कर्त्तृनिष्ठतयासर्वदैव जानीतेऽत्येव प्रयोगापत्तेः जानातीत्यादेरपला-पापत्तेश्च नेष्यते तु तथा शास्त्रकारैः। नापि क्रियाजन्यवे-तनदक्षिणारूपलाभादि गौणं फलमिह विवक्षितं तथासति सूदादेस्तादृशफलवत्त्वेन सूदः पचते ऋत्विजोयजन्तेइत्यादिप्रयोगापत्तेः। किन्तु फलतीति व्युत्पत्त्या प्रयोज-नापरनाम क्रियाजन्यं तृप्तिस्वर्गादिरूपमेव मुख्यं फलंग्राह्यं यथोक्तं हरिणा
“यस्यार्थस्य प्रसिद्ध्यर्थमारभ्यन्तेपचादयः। तत् प्रधानं फलं तासां न लाभादि प्रयोजन-मिति”। प्रसिद्ध्यर्थं निष्पत्त्यर्थं पचादयः पाकादयः। तत्तासां पचादीनां प्रधानं फलमित्यर्थः। फलस्य प्राधान्य-ञ्चेतरापेक्षया बोध्यं तेन इतरेच्छानधीनेच्छाविषयत्वस्यतस्य सुखादिष्वेव सत्त्वेऽपि क्वचित्साक्षात्सुखादिरूपप्रयोजनालाभे तत्साधनरूपेपरफख्स्यापि ग्रहणमितिद्रष्टव्यम्। तेन अपाद्वदैत्यादिसूत्रविहिततङः सुखादि-[Page2328-a+ 38] रूपमुख्यप्रयोजनाभावेऽपि कर्तृवाचकत्वम्। क्रियोद्देश्येसंयोगविभागादिरूपे फलविशिष्टष्यापारस्य धात्वर्थ-तावादिमते धात्वर्थतावच्छेदकरूपे

४ फले पृथक्शक्तिवा-दिमते कर्त्त्राख्यातस्थले तद्धातूपस्थाप्ये धात्वर्थाऽंशे वि-शेषणतया भासमाने तद्धातुजन्ये

५ संयोगादिके फले च। इत्थमेव शब्दार्थरत्नेऽस्माभिर्दर्शितं यथा
“तत्र फलतीतिव्युत्पत्त्या फलं नाम तद्धात्वर्थजन्यं संयोगविभागादि, गम्यादौ विभागस्य फलत्ववारणाय तद्ध्वातू-पस्थाप्यत्वेन विशेषणेऽपि विभागाजन्यसंयोगस्य पतन-फलत्वमते विभागस्य तद्धात्वर्थजन्यत्वात् तद्धातूपस्थाप्यत्वा-दतिव्याप्तिरतस्तद्धात्वर्थे विशेषणतया भासमानत्वेनैबविशेषणीयं गम्यादौ च विभास्य तद्धात्वर्थे विशेषणतयाभासमानत्वाभावात् न फलत्वप्रसङ्गः। मञ्जूषाकृन्मतेतु कर्त्तृप्रत्ययस्थले तथाभासमानत्वमिति विवेकः। क्रियाविशेषणादेर्धात्वर्थे विशेषणत्वेऽपि तज्जन्यत्वाभावा-न्न फलत्वप्रसङ्गः। विशेषणत्वञ्च साक्षादेव विवक्षितं तेनघटं करोतीत्यादौ घटादेः धात्वर्थक्रियाजन्यस्य विभक्त्य-र्थद्वारा तद्विशेषणत्वेऽपि न फलत्वापत्तिः” इति।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

क्रियाफल¦ n. (-लं) Result or consequence of acts. E. क्रिया, and फल fruit.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

क्रियाफल n. result or consequence of acts.

"https://sa.wiktionary.org/w/index.php?title=क्रियाफल&oldid=497702" इत्यस्माद् प्रतिप्राप्तम्