क्रियास्नान
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्रियास्नान¦ न॰ क्रियाङ्गं स्नानम्। शङ्खोक्ते स्नानविधि-भेदे तत्प्रकारो यथा
“क्रियास्नानं प्रवक्ष्यामि यथावद्विधिपूर्व्वकम्। मृद्भिरद्भिश्चकर्त्तव्यं शैचमादौ यथाविधि। जले निमज्य उन्मज्यउपस्पृश्य यथाविधि। तीर्थस्यावाहनं कुर्य्यातत् प्रव-क्ष्याम्यशेषतः। प्रपद्ये वरुणं देवमम्भसां पतिमर्च्चितम्। याचेत देहि मे तीर्थं सर्वपापापनुत्तये। तीर्थमावाहयि-स्यामि सर्व्वाधविनिसूदनम्। सान्निध्यमस्मिन् तोवे चक्रियतां मदनुग्रहात्। रुद्रान् प्रपद्ये वरदान् सर्वानप्{??}सदस्तथा। सर्वानप्सुसदश्चैव प्रपद्ये प्रयतः स्थितः। देव-मंशुसदं वह्निं प्रपद्येऽघनिसूदनम्। आपः पुण्याः प-वित्राश्च प्रपद्ये शरणं तथा। रुद्राश्चाग्निश्च सर्पश्च वरु-णस्त्वाप एव च। शमयन्त्याशु मे पापं माञ्च रक्षन्तुसर्वशः। हिरण्यवर्णातिसृभिर्ज्जगतीति चतसृभिः। शन्नोदेवीति च तथा शन्नआपस्तथैव च। इदमापः प्रवहतेद्वृप्रचञ्च समुदीरयेत्। एवं सम्मार्जनं कृत्वा च्छन्दआर्षञ्चदेवताः। अघमर्षणसूक्तञ्च प्रपठेत् प्रयतः सदा। छन्दो-ऽनुष्टुप् च तस्यैव ऋषिश्चैवाघमर्षणः। देवता भाववृ-त्तश्च पापक्षवे प्रकीर्त्तितः। ततोऽम्भसि निमग्नः स्यान्त्रिःपठेदघमर्षणम्। प्रदद्यान्मूर्द्धनि तथा महाव्याहृति-भिर्जलम्। यथाश्वमेघः क्रतुराट् सर्वपापापनोदनः। तथाघमर्षणं सूक्तं सर्वपापप्रणाशनम्। अनेन वि-धिना स्नात्वा स्नातवान् धौतवाससा। परिवर्तितवासास्तुतीर्थनामानि संजपेत्। उदकस्यापदानात्तु स्नानशाटीं नपीडयेत्। अनेन विधिना स्नातस्तीर्थस्य फलमश्नुते”।
