क्रुतु
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्रुतु¦ पु॰ कृ--कतु।
१ यूपसहिते, सोमसाध्ये यज्ञे,
२ संक-ल्पे, ब्रह्मणोमानसे पुत्रे
३ ऋषिभेदे,
४ धैश्वदेवभेदे,
५ इन्द्रियेषु च।
६ विष्णौ तस्य सर्व्वयज्ञमयत्वेन सयूपयज्ञरूपत्वमपीष्टं यथाह
“यज्ञईज्यो महेज्यश्च क्रतुः सत्रं सतांगतिः” विष्णुस॰।
“सर्व्वयज्ञस्वरूपत्वात् यज्ञः यूपसहि-तोयज्ञः क्रतुरिति” भाष्यम्। तेन क्रतुशब्दस्य यूपस-हितयज्ञबोधकता। अतएव तत्तद्यागे यूपविशेषाः शत-पथव्राह्मणादौ उक्ताः। तत्र सोमसाध्ययागाश्च त्रयक्रतवः
“त्रीन् क्रतूनन्वाहाग्नेयमुषस्यमाश्विनम्” श्रुतौ
“इ-त्य ग्नेयः क्रतुः अथोषस्यः”
“अथाश्विनः” आश्व॰ सौ॰
४ ।
१३ ।
८ ।
१४ ।
१ ।
१५ ।
१ । सूत्रेषु दर्शिताः। अन्येऽपि क्रतदी-वेदेषु दर्शितास्ततएवा वगम्याः। संकल्पश्च कामनाधीनःचित्तवृत्तिभेदः यथोक्तम्
“कामः क्रतुः कर्म्म जन्मेत्येवमेषांक्रमोभवेत्। पुंसोया विषयापेक्षा स काम इति भण्यते। सएव वर्द्धमानश्चेत् क्रतुत्वं प्रतिपद्यते”।
“सचेरतिशयःकाम्ये विषये क्रतुरीर्य्यते” इत्युक्ते
७ रुचेराधिक्येच।
८ प्रज्ञायां निघ॰।
९ स्तवनादिकर्म्मणि च।
“पुरुष्टुत! क्रत्वा नः सस्ति” ऋ॰
४ ।
२१ ।
१० ।
“क्रत्वाकर्म्मणा स्तुत्यादिहेतुना” भा॰। क्रतुनामा मुनिश्च
“ब्र-ह्मणोमानसाः पुत्रा विदिताः षण्महर्षयः। मरीचिर-त्र्यङ्गिरारसौ पुलस्त्यः पुलहः क्रतुः” भा॰ आ॰
६५ अ॰उक्तः।
“क्रतोरपि क्रियाभार्य्या वालिखिल्यानसूयत। ऋषीन् षष्टिसहस्राणि ज्वलतो ब्रह्मतेजसा” भाग॰
४ ।
१ ।
३२ । तद्वंशाद्युक्तम्
“ससर्ज सृष्टिं तद्रूपां स्रष्टुमिच्छन् प्रजा-पतीन् मरीचिमत्र्यङ्गिरसौ पुलस्व्यं पुलहं क्रतुम्। वसिष्ठञ्च महातेजाः सोऽसृजत् सप्त मानसान्” हरिवं॰
१ अ॰। विश्वेदेवाश्च त्रयोदश यथा
“आत्मार्थे चासृजत् पुत्त्रान् लोककर्तॄन् पितामहः। विश्वेप्रजानां पतयो येभ्यो लोका विनिःसृताः। विश्वेशं प्रथमंनाम महातपसमात्मजम्। सर्व्वाश्रमपदं पुण्य नाम्ना[Page2284-a+ 38] धर्म्मंस सृष्टवान्। दक्षं मरीचिमत्रिञ्च पुलस्त्यं पुलहंक्रतुम्। वशिष्ठं गौतमञ्चैब भृ{??}मङ्गिरसं मनुम्। अथ-र्तभूता इत्येते ख्याताश्चैव महर्षयः। त्रयोदश सुतायेषां वंशा वै संप्रतिष्ठिताः”। हरिवं॰
३०
४ अ॰जटाधरेण तु
“वि{??}देवा दश स्मृता” इत्युक्तम्। गणदे-वता शब्दे तन्मूलं वक्ष्यते। कल्पभेदादविरुद्धम्तत्र प्रज्ञा निश्चयः अध्यवसायः यथाह
“अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिं ल्लोके पुरुषोभवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत” छा॰ उ॰।
“कथमुपासीत। स क्रतुं कुर्वीत क्रतुर्निश्चयोऽध्यवसायश्चएवमेव नान्यथेति अविचलः प्रत्ययस्तं क्रतुं कुर्वीतोपासीतेत्यनेन व्यवहितेन सम्बन्धः। किं पुनः क्रतुकरणेनकर्त्तव्यं प्रयोजनम्? कथं वा क्रतुः कर्त्तव्यः? क्रतुकरणंधाभिप्रेतार्थसाधनं कथम्? इत्यस्यार्थस्य प्रतिपादनार्थमथे-त्यादिग्रन्थः। अथ खल्विति हेत्वर्थः। यस्मात् क्रतुमयःक्रतुपायोऽध्यवसायात्मकः पुरुषो जीवः। यथाक्रतुर्या-दृशः क्रतुरस्य सोऽयं यथाक्रतुर्यथाध्यवसायो यादृङ्नि-श्चयोऽस्मिं ल्लोके जीवन्निह पुरुषो भवति। तथेतोऽस्माद्दे-हात् प्रेत्य मृत्वा भवति। क्रत्वनुरूपफलात्मको भवतीत्यर्थःएवं ह्येतच्छास्त्रतो दृष्टम्।
“यं यं वापि स्मरन् भावंत्यजत्यन्ते कलेवरमित्यादि” यत एवं व्यवस्था शास्त्रदृ-ष्टाऽतः स एवं जानन् क्रतुं कुर्व्वीत यादृशं क्रतुं वक्ष्या-मस्तम्। यत एवं शास्त्रप्रामाण्यादुपपद्यते क्रत्वनुरूपंफलमतः स कत्तेव्यः क्रतुः” भा॰।
१० आषाढमासेचातुर्मास्यादियागारम्भकत्वात् तस्य तथात्वम्
“वाजायस्वाहा प्रसवाय स्वाहाऽपिजाय स्वाहा क्रतपेस्वाहा वसवे स्वाहाऽहर्पतये स्वाहाह्ने मुग्धाय स्वाहामुग्धाय वैनंशिनाय स्वाहा, विनंशिन आन्त्यायनाय स्वा-हान्त्याय भौवनाय स्वाहा भुवनस्य पतये स्वाहाघिपतयेस्वाहा प्रजापतये स्वाहा” यजु॰
१८ ।
२८ ।
“वाजादीनि चैत्रा-दिमासानां नामानि तन्नाम गृहीत्वा होतव्यमित्यर्थःअन्नप्राचुर्द्याच्चैत्रोऽन्नरूपः, प्रसवायानुज्ञारूपाय जलक्री-डादौ अभ्यनुज्ञादानात् प्रसवो वैशाखः। अपिजायअप्सु जायत इत्यपिजः सप्तभ्या अलुक् जलक्रीडारत-त्वादपिजो ज्यैष्ठः। क्रतवे यागरूपाय चातुर्मास्यादियागप्राचुर्य्यात् क्रतुरषाढः” वेददो॰।
