क्षत

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतम्, क्ली, (क्षण्यते वध्यतेऽनेन । क्षण + करणे क्तः ।) स्रवद्रक्तपूयादि । घा इति भाषा । तत्पर्य्यायः । व्रणः २ अरुः ३ ईर्म्मम् ४ क्षणनुः ५ । इति हेमचन्द्रः ॥ तद्वति त्रि ॥ * ॥ क्षतेन मृतस्याशौचं यथा, व्याघ्रः । “क्षतेन म्रियते यस्तु तस्याशौचं भवेद्द्विधा । आसप्ताहात् त्रिरात्रं स्याद्दशरात्रमतः परम् ॥ शस्त्रघाते त्र्यहादूर्द्ध्वं यदि कश्चित् प्रमीयते । अशौचं प्राकृतं तत्र सर्व्ववर्णेषु नित्यशः ॥ अत्र अस्त्रघातपदं क्षतेतरशस्त्रघातपरं पारि- भाषिकशस्त्राघातपरमपि । अन्यथा क्षतं विना पतनादिभिर्विलम्बमृतानां दिनग्रहणेऽनध्यवसायः स्यात्” । इति शुद्धितत्त्वम् ॥ * ॥ चन्द्रग्रहणादौ क्षतदोषाभावो यथा, -- पुलस्त्यः । “चन्द्रसूर्य्यग्रहे चैव मृतानां पिण्डकर्म्मसु । महातीर्थे च संप्राप्ते क्षतदोषो न विद्यते” ॥ अन्यत्र तु देवलः । “सव्रणः सूतकी सूयी मत्तोन्मत्तरजस्वलाः । मृतबन्धुरवन्धुश्च वर्ज्यान्यष्टौ स्वकालतः” ॥ इत्यनेन वर्ज्यतामाह । अशुचित्वमप्याह । “दन्तलग्नमसंहार्य्यं लेपं मन्येत दन्तवत् । न तत्र बहुशः कुर्य्यात् यत्नमुद्धरणे पुनः ॥ भवेदशौचमत्यर्थं तृणवेधात् व्रणे कृते” ॥ इति प्रायश्चित्ततत्त्वम् ॥ (विदारणम् । यथा, कुमारे । ३ । २९ । “नखक्षतानीव वनस्थलीनाम्” ॥ विनाशः । यथा, रघुः । २ । ५३ । कोललाक्षारसे तद्वत् क्षीराष्टगुणसाधितम् । कल्कैः कट्वम्लदार्व्वीत्वग्वत्सकत्वक्फलैर्घृतम् ॥ जीवकर्षभकौ वीरां जीवन्तीं नागरं शठीम् । चतस्रः पर्णिनीर्मेदे काकोल्यौ द्वे निदिग्धिके ॥ पुनर्नवे द्वे मधुकं आत्मगुप्तां शतावरीम् । ऋद्धिं परूषकं भार्गीं मृद्वीकां वृहतीन्तथा ॥ शृङ्गाटकीं तामलकीं पयस्यां पिप्पलीं बलाम् । वदराक्षोटखर्जूरवातामाभिषुकाण्यपि ॥ फलानि चैवमाद्यानि कल्कान् कूर्व्वीत कार्षिकान् । धात्रीरसविदारीक्षु छागमांसरसं पयः ॥ कुर्य्यात्प्रस्थोन्मितं तेन घृतप्रस्थं विपाचयेत् । प्रस्थार्द्धं मधुनः शीते शर्करार्द्धतुलान्तथा ॥ द्विकार्षिकाणि पत्रैला हेमत्वङ्मरिचानि च । चूर्णितानि विनीयास्माल्लिह्यान्मात्रां सदा नरः ॥ अमृतप्राशमित्येतन्नराणाममृतं घृतम् । सुधामृतरसं प्रास्य क्षीरमांसरसाशिना ॥ नष्टशुक्रक्षतक्षीणदुर्ब्बलव्याधिकर्षितान् । स्त्रीप्रसक्तान् कृशान् वर्णस्वरहीनांश्च वृंहयेत् ॥ कासहिक्काज्वरश्वासदाहतृष्णास्रपित्तनुत् । पुत्त्रदं वमिमूर्च्छाह्वयोनिमूत्रामयापहम्” ॥ इत्यमृतप्राशघृतम् ॥ “मधुकाष्टपलं द्राक्षा प्रस्थक्वाथे घृतं पचेत् । पिप्पल्यष्टपले कल्के प्रस्थं सिद्धे च शीतले ॥ पृथगष्टपलं क्षौद्रशर्कराभ्यां विमिश्रयेत् । समं शक्तुक्षतक्षीणे रक्तगुल्मेषु तद्धितम्” ॥ इति शक्तुप्रयोगः ॥ “शक्तूनां वस्त्रपूतानां मन्थं क्षौद्रघृतान्वितम् । यावान्नसात्म्यो दीप्ताग्निः क्षतः क्षीणः पिबेन्नरः” ॥ “एका षोडशिका धान्याद्धि द्वेऽजाज्यजमोदयोः । ताभ्यां दाडिमवृक्षाम्लद्विर्द्विः सौवर्च्चलात्पलम् ॥ शुण्ठ्याः कर्षं दधित्थस्य मेध्यात्पञ्च पलानि च । तच्चूर्णं षोडशपले शर्कराया विमिश्रयेत् ॥ षाडवोऽयं प्रदेयः स्यादन्नपानेषु पूर्ब्बवत्” ॥ इति षाडवः ॥ “यच्चोक्तं यक्ष्मिणां पथ्यं कासिनां रक्तपित्तिनाम् । तच्च कुर्य्यादपेक्ष्याग्निं व्याधिं सात्म्यबलांस्तथा” ॥ इति चरके चिकित्सास्थाने १६ अध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षत¦ त्रि॰ क्षण--क्त।

१ विदारिते

२ पीडिते

३ घर्षिते च।
“रवोरवष्टम्भमयेन पत्रिणा हृदि क्षतोगोत्रभिदप्यमर्षणः” रघुः।

४ क्षतियुक्ते
“रुद्राणामपमूर्द्धानः क्षतहुङ्कारशंसिनः” कुमा॰
“क्षततिमिरेषु दिग्बधूमुखेषु” भट्टिः क्ष-तयोन्या अपि स्त्रियाः”
“कन्यैवाक्षतयोनिर्या पाणिग्र-हणदूषिता” इति च नारदः। विदारणञ्च शस्त्रादिभि-रवयवविमागः,
“अङ्गुलीवोरगक्षता” रघुः। सर्पेणदशनेनाङ्गुल्याविदारणात्तथात्वम्। भावे क्त।

५ विदारणेन॰
“नखक्षतानीव वनस्थलीनाम्” कुमा॰
“अनलङ्कृतोऽपिसुन्दर! हरसि मनोमे यतः प्रसभम् किं पुनरलङ्कृतस्त्वंनखरक्षतैस्तस्याः” सा॰ द॰।

६ घर्षणे
“क्षतोज्ज्वलाङ्गुष्ठनखां-शुभिन्नया” माघः। उपचारात् तत्कार्य्ये

७ दुःखादौ
“क्षतात् किल त्रायत इत्युदग्रः क्षत्रस्य शब्दोभुवनेषुरूढः” रघः उपचारात् (घा) इति प्रसिद्धे स्रवद्रक्त[Page2356-b+ 38] पूयादौ

८ ब्रणे हेमच॰
“प्रकुपितास्तु दोषामेढ्रममिपन्ना-मांसशोणिते प्रदूष्य कण्डूं जनयन्ति तत्र कण्डूयनात्क्षतं समपजायते क्षते दुष्टमांसजाः प्ररोहाः पिच्छिलरुधिरस्राविणो जायन्ते कूर्चकिणोऽभ्यन्तरमुपरिष्टाद्वा” सुश्रु॰
“यस्तु क्षतेषूपयुज्यते स भूयःकल्क इति संज्ञां लभते” सुश्रु॰ व्रणशब्दे विवृतिःक्षतनिमित्तमरणेऽशौचभेदमाह शु॰ त॰ व्याघ्रः
“क्षतेनम्रियते यस्तु तस्याशौचं भवेद्द्विधा। आ सप्ताहात्त्रिरात्रस्यात् दशरात्रमतः परम्। शस्त्रघाते त्र्यहादूर्द्ध्वं यदिकश्चित् प्रमीयते। अशौचं प्राकृतं तत्र सर्व्ववर्ण्णेषु नित्य-शः”।
“अत्र शस्त्रघातपदं क्षतेतरशस्त्रघातपरं पारिभाधि-कशस्त्रघातपरमपि। यथा देवीपु॰
“पक्षिमत्स्यमृगैर्ये तुदंष्ट्रिशृङ्गिनखैर्हताः। पतनानशनप्रायैर्वज्राग्निविषबन्ध-नैः। मृता जलप्रवेशेन ते वै शस्त्रहताः स्मृताः”। अ-न्यथा क्षतं विना पतनादिभिविलम्बमृतानां दिनग्रह-णेऽनध्यवसायः स्यात्। न च शास्त्रीये व्यवहासेऽन्तरङ्ग-त्वेन पारिभाषिकग्रहणस्यैव युक्तत्वमिति वाच्यम् श्राद्धेपारिभाषिकापारिभाषिकशस्त्रघातग्रहणवदत्रापि तथा यु-क्तत्वात् पारिभापिकत्वादेव न प्रकरणनियमः” शु॰ त॰

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षत¦ mfn. (-तः-ता-तं)
1. Hit, hurt, wounded, &c.
2. Broken, torn, rent.
3. Trodden or broken down.
4. Impaired, diminished.
5. Destroyed. n. (-तं) A wound, sore, a hurt. E. क्षण् to hurt. affix क्त, deriv. irr.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षत [kṣata], p. p. [क्षण्-क्त]

Wounded, hurt, injured, bitten, torn, rent, broken down &c.; see क्षण्; रक्तप्रसाधितभुवः क्षतविग्रहाश्च Ve.1.7; Ku.4.6; R.1.28;2.56;3.53.

Diminished; trodden.

तम् Scratching, a scratch.

A wound, hurt, injury; क्षते प्रहारा निपतन्त्यभीक्ष्णम् Pt. 2.178; क्षते क्षारमिवासह्यं जातं तस्यैव दर्शनम् U.4.7; क्षारं क्षते प्रक्षिपन् Mk.5.18; नख˚ Ku.3.29.

Danger, destruction, peril; क्षतात् किल त्रायत इत्युदग्रः R.2.53. -Comp. -अरि a. victorious. -आस्रवम् Blood; Bhag.3.18.19.-उदरम् dysentery. -कासः a cough produced by injury.

जम् blood; स च्छिन्नमूलः क्षतजेन रेणुः R.7.43; Ve. 2.27; Rām.5.1.19.

puss, matter. -योनिः f. a violated woman, a woman who is no longer a virgin.-विक्षत a. mangled, covered with cuts and wounds.-वृत्तिः f. destitution, being deprived of any means of support; क्षतवृत्तिर्वने नित्यं फालकुद्दाललाङ्गली Rām.2.32.29.-व्रतः a student who has violated his vow or religious engagement. -हरम् aloewood.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षत क्षतिन्. See. ib.

क्षत mfn. wounded , hurt , injured S3Br. vi Ya1jn5. etc.

क्षत mfn. broken , torn , rent , destroyed , impaired MBh. etc.

क्षत mfn. diminished , trodden or broken down

क्षत n. a hurt , wound , sore , contusion MBh. Sus3r. etc.

क्षत n. rupture or ulcer of the respiratory organs

क्षत n. N. of the sixth astrological mansion VarBr2. i , 16.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṣata is regarded by Zimmer[१] as denoting a special disease (a sort of Phthisis pulmonalis) in the Atharvaveda,[२] but the word is probably only an adjective.[३]

  1. Altindisches Leben, 377.
  2. vii. 76, 4 (where the reading is doubtful, the text having akṣita. See Akṣata).
  3. Bloomfield, Hymns of the Atharvaveda, 509;
    Whitney, Translation of the Atharvaveda, 442.
"https://sa.wiktionary.org/w/index.php?title=क्षत&oldid=497831" इत्यस्माद् पुनः प्राप्तिः